स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥

सारांश AI मान-सम्मान वाले व्यक्ति अपने धर्म पर अडिग रहते हैं; वे शत्रुओं का अपमान सहकर युद्ध से पलायन नहीं करते।
घण्टापथव्याख्या (मल्लिनाथः) स्वधर्ममिति ॥ मानशालिनः स्वधर्मं क्षात्रधर्ममनुरुन्धन्तेऽनुवर्तन्ते । अतिक्रमं स्वधर्मातिक्रमं नानुरुन्धन्ते । ततः किमत आह-अरातिभिरिति । अरातिभित्कृतध्वंसाः कृतापकाराः सन्त आहवान्न पलायन्ते । अयमेव स्वधर्मानुरोध इत्यर्थः । उपसर्गस्यायतौ (अष्टाध्यायी ८.२.१९ ) इति रेफस्स लत्वम् । अत्र मनु:—न निवर्तेत सङ्ग्रामात्क्षात्रधर्ममनुस्मरन् इति । अत्रोत्तरवाक्यार्थं प्रति पूर्ववाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ किंबहुना ममायं निश्चयः श्रूयतामित्याह
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व र्म नु रु न्ध न्ते
ना ति क्र रा ति भिः
ला न्ते कृ ध्वं सा
ना वा न्मा शा लि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.