आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥

सारांश AI कुल का भार, माता की ममता और ज्येष्ठ भ्राता के प्रति मर्यादा मेरी स्वतंत्रता को नियंत्रित करती है।
घण्टापथव्याख्या (मल्लिनाथः) आसक्तेति ॥ आसक्ता लग्ना। अवश्यं कर्तव्येत्यर्थः । रूढा प्रसिद्धा । महतीत्यर्थः। इयं पूर्वोक्ता धूर्वैरनिर्यातनभारः । दूरगा दूरवर्तिनी जननी च मातापि । तथा नृपोऽप्याचारवान् । तपोधिक इत्यर्थः । तत्रापि ज्यायाञ्ज्येष्ठो नृपो युधिष्ठिरश्च मे मम स्वातन्त्र्यं स्वाच्छन्द्यं तिरस्करोति दूरीकरोति। आश्रमान्तरं प्रतिबध्नातीत्यर्थ:।तिरस्करोतीति प्रत्येकमभिसंबध्यते । अन्यथा बहुवचनप्रसङ्गात् ॥ उक्तमर्थमुपसंहरति
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ता धू रि यं रू ढा
नी दू गा मे
ति स्क रो ति स्वा न्त्र्यं
ज्या यां श्चा चा वा न्नृ पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.