सारांश
AI
मैं समय से पहले मुनि-धर्म को अपनाकर शास्त्रों द्वारा बताए गए आश्रमों के क्रम का उल्लंघन कैसे कर सकता हूँ?
घण्टापथव्याख्या (मल्लिनाथः)
कथमिति ॥ धर्मरोधिनी धर्मविरोधिन्यर्वाग्गार्हस्थ्यात्प्रागेव मुनिता वानप्रस्थत्वं चतुर्थाश्रमता वा । वर्णप्रक्रमेण तस्य विधानात्
त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः इति सूत्रकारवचनाच्च क्षत्रियस्यापि कैश्चिदिष्टत्वात् । तदेतत्सम्यग्विवेचितमस्माभी रघुवंशसंजीविन्याम् स किलाश्रममन्त्यमाश्रितः इत्यत्र । कथं वादीयतां मया कथं वाङ्गीक्रियताम्। संप्रश्ने लोट्। तथाहि। पूर्वैर्मन्वादिभिराश्रमानुक्रमः स्मर्यते। न तु व्यतिक्रमः । ब्रह्मचारी भूत्वा गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् इति श्रुत्यनुसारादित्यर्थः । एतदपि चत्वार आश्रमाः इत्येतत्पक्षमाश्रित्योक्तम्। यदि चेद्वैराग्यं तदा ब्रह्मचर्यादेव प्रव्रजेत्। गृहाद्वनाद्वेति व्युत्क्रमपक्षस्यापि श्रवणात् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ ननु भवान्गृहस्थ एव । तत्कथमर्वाङ्मुनित्वविरोध इत्याशङ्क्य सत्यं गृहस्थोऽस्मि, तथापि कृतनिखिलगृहस्थकर्तव्यस्यैव वानप्रस्थाधिकारो न गृहस्थमात्रस्य । न चाहमद्यापि कृतकृत्य इत्युत्तरमाह
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| क | थं | वा | दी | य | ता | म | र्वा |
| ङ्मु | नि | ता | ध | र्म | रो | धि | नी |
| आ | श्र | मा | नु | क्र | मः | पू | र्वैः |
| स्म | र्य | ते | न | व्य | ति | क्र | मः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.