स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥

सारांश AI संकट के समय यदि राजा की आज्ञा व्यर्थ हो जाए, तो वह अपने स्वच्छ वंश के लिए चंद्रमा के कलंक के समान होता है।
घण्टापथव्याख्या (मल्लिनाथः) स इति । स नरोऽवदातस्य स्वच्छस्य वंशस्य शशाङ्कस्येव लाञ्छनं कलङ्कः। यत्र यस्मिन्पुरुषे कृच्छ्रेषु व्यसनेषु भर्तुः स्वामिन आज्ञया व्यर्थया भूयते । भावे लट् । आपदि स्वार्थसाधकः कुलघातकः । तत्कथं स्वार्थनिष्ठकार्यता युक्तेत्यर्थः ॥ यदुक्तम् विजहीहि रणोत्साहम् इत्यादि, तत्रोत्तरमाह
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वं स्या दा स्य
शा ङ्क स्ये ला ञ्छ नम्
कृ च्छ्रे षु व्य र्थ या त्र
भू ते र्तु रा ज्ञ या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.