Loading data... On slow networks this could take a few minutes.
100%

ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥

सारांश AI सच्चा पुरुष वही है जिसके तेज और गौरव के कारण शत्रु भी सभा में विवश होकर उसके नाम का सम्मान करते हैं।
घण्टापथव्याख्या (मल्लिनाथः) ग्रसमानमिति ॥ किं च । सदसा सभया गौरवेणेरितं कथाप्रसङ्गेषु गौरवपूर्वकमुच्चारितम्। सत ओजांसि शृण्वतां तेजांसि ग्रसमानं गिलदिव स्थितं यस्य पुंसो नाम द्विषोऽप्यभिनन्दन्त्यनुमोदन्ते । किमुत सुहृद इति भावः । स पुमान्पुमान् । पुरुषत्वेन गण्यत इत्यर्थः । प्रथमः पुंशब्दो जातिवचनो द्वितीयो गुणवचनः । स एव श्लाघ्य: । अत्र पुमान्पुमानिति तात्पर्यमात्रभेदभिन्नशब्दार्थपौनरुक्यलक्षणो लाटानुप्रासोऽलंकारः। तथा च सूत्रम्-तात्पर्यभेदयुक्तो लाटानुप्रासः इति ॥ ननु सत्सु भीमादिषु तवैवायं कोऽभिनिवेश इत्यत्राह
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ग्र मा मि वौ जां सि
सा गौ वे रि तम्
ना स्या भि न्द न्ति
द्वि षो ऽपि पु मा न्पु मान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.