Loading data... On slow networks this could take a few minutes.
100%

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥

सारांश AI केवल जन्म से पुरुष होना व्यर्थ है। वास्तविक पुरुष वही है जो अपने गुणों से संसार में विस्मय और प्रशंसा का पात्र बने।
घण्टापथव्याख्या (मल्लिनाथः) जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचित्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । कृतमिति निषेधार्थमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि पुरुषशब्दः प्रवर्तते । परंतु नासौ पुंसामाशास्यः। पश्वादिसाधारण्यादिति तात्पर्यार्थः। तर्हि कीदृक्श्लाघ्य इत्याशंक्याहय इत्यादिनार्थद्वयेन । अङ्गीकृतगुणैर्गुणपक्षपातिभिर्यः पुमाञ्श्लाघ्य: स्तुत्यः सन्सविस्मयं ससंभ्रममुदाहृतः कथितः । पुंसेदृशेन भवितव्यमिति निदर्शितः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कृ तं पु रु ब्दे
जा ति मा त्रा म्बि ना
यो ऽङ्गी कृ गु णैः श्ला घ्यः
वि स्म मु दा हृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.