अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ॥

सारांश AI हे तपोधन, जिस व्यक्ति का क्रोध शत्रुओं को पराजित किए बिना ही शांत हो जाए, वह पुरुष कहलाने योग्य कैसे है?
घण्टापथव्याख्या (मल्लिनाथः) अनिर्जयेनेति ॥ यस्यामर्षः क्रोधो द्विषतां शत्रूणामनिर्जयेन निर्जयं विनैव प्रशाम्यति। उपलक्षणे तृतीया । तस्मिन्पुरुष इत्युक्तिः पुरुषशब्दः कथम् । नं कथंचिदित्यर्थः। प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्याभावादिति भावः । हे तपोधन, त्वं हि त्वमेव ब्रूहि कथय। न च ते किंचिदविदितमस्तीति भावः।हि हेताववधारणे इत्यमरः (अमरकोशः ३.३.२७२ ) ॥ ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किं पुरुषकारेण । तत्राह-कृतमित्यादिद्वयेन ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि र्ज ये द्वि तां
स्या र्षः प्र शा म्य ति
पु रु षो क्तिः थं स्मि
न्ब्रू हि त्वं हि पो
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.