प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् ।
वैधव्यतापितारातिवनितालोचनाम्बुभिः ॥

सारांश AI मैं शत्रुओं की स्त्रियों के वैधव्य के आंसुओं से अपने अपयश रूपी कलंक को धोना चाहता हूँ।
घण्टापथव्याख्या (मल्लिनाथः) प्रमार्ष्टुमिति ॥ किंतु च्छद्मना कपटेन कृतम् । शत्रुभिरिति शेषः । अयश एक पङ्कमिति रूपकालंकारः । वैधव्येन तापितानां दुःखीकृतानामरातिवनितानां लोचनाम्बुभिः प्रमाष्टुं क्षालयितुमिच्छेयमभिलषेयम्। इषिधातोर्लिङि रूपम्। वैरनिर्यातनातिरिक्तं न किंचिदिच्छामीत्यर्थः ॥ एवं तर्हि यः करोति वधोदर्का: इत्यायुक्तदोषः स्यादित्याशङ्कामङ्गीकृत्य ग्लानिर्न दोषायेति न्यायमाश्रित्य युग्मेनोत्तरमाह
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र मा र्ष्टु शः ङ्क
मि च्छे यं द्म ना कृ तम्
वै व्य ता पि ता रा ति
नि ता लो ना म्बु भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.