Loading data... On slow networks this could take a few minutes.
100%

न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् ।
नानित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदम् ॥

सारांश AI मैं न तो सुख-वैभव चाहता हूँ और न ही मृत्यु के भय से मोक्ष की कामना करता हूँ।
घण्टापथव्याख्या (मल्लिनाथः) नेत्यादि ॥ उदन्वद्वीचिरिव चञ्चलं समुद्रतरङ्गवदस्थिरं सुखं कामं न प्रार्थयेच्छामि। तथा चञ्चलमर्थं च न प्रार्थये । किं चानित्यता विनाशिता सैवाशनिस्तस्मा अस्यन्विभ्यत् । वा भ्राश- (अष्टाध्यायी ३.१.७० ) इत्यादिना श्यन्प्रत्ययः। विविक्तं निर्बाधं ब्रह्मणो वेधस आत्मनानपद्यत इति पदं स्थानमैक्यलक्षणं मुक्तिं च न प्रार्थये । एतेन यदुक्तम् ढच्छेदुं जन्मनः कर्तुम् इत्यादि, तत्समाहितम् ।
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु खं प्रा र्थ ये ना र्थ
मु न्व द्वी चि ञ्च लम्
ना नि त्य ता ने स्त्र स्य
न्वि वि क्तं ब्र ह्म णः दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.