गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥

सारांश AI जिनके उज्ज्वल यश से चंद्रमा की आभा फीकी पड़ जाए, वे ही अपने वंश को गौरव दिलाते हैं और पृथ्वी को सार्थक करते हैं।
घण्टापथव्याख्या (मल्लिनाथः) गुरूनिति ॥ ते नरा वंश्यानन्वये भवान्गुरून्कुर्वन्ति प्रथयन्ति । स्वनाम्ना व्यपदेशयन्ति रघुदिलीपादिवदित्यर्थः। तैर्नरैः। वसूनि धनानि धरतीति वसुंधरा।संज्ञाया भृतृवृजि- इत्यादिना खच्प्रत्यये खचि ह्रस्वः (अष्टाध्यायी ६.४.९४ ) इति ह्रस्वान्नुमागमश्च । अन्वर्थानुगतार्था । तेषां वसुभूतानां धारणादिति भावः । येषां शुभ्राणि यशांसीन्दुमण्डलं ह्रेपयन्ति लज्जयन्ति। यशसो निष्कलङ्कत्वादिति भाव: । ईदृशं हि यशोमानमहत एव संभवतीति तात्पर्यार्थः। ह्रीधातोर्ण्यन्ताल्लट्।अर्तिह्नि-इत्यादिना पुगागमः। अत्र ह्रेपणस्य सादृश्यपर्यवसानादुपमालंकारः॥ उदाहरणमाशी:षु प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षों यैररातिषु पात्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
गु रू न्कु र्व न्ति ते वं श्या
न्व र्था तै र्व सुं रा
ये षां शां सि शु भ्रा णि
ह्रे न्ती न्दु ण्ड लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.