तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥

सारांश AI लक्ष्मी, स्थिर यश और पुरुषत्व तभी तक बने रहते हैं जब तक व्यक्ति स्वाभिमान से विचलित नहीं होता।
घण्टापथव्याख्या (मल्लिनाथः) तावदिति ॥ किं च । तावदेवासौ लक्ष्म्याश्रीयते। तावदस्य पुंसो यशः स्थिरम् । तावदेवासौ पुरुषः। पुरुषत्वेन गण्यत इत्यर्थः। यावन्मानादभिमानान्न हीयते न भ्रंश्यति। मानहीनस्य न किंचिच्छुभमस्तीत्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ता दा श्री ते क्ष्म्या
ता स्य स्थि रं शः
पु रु स्ता दे वा सौ
या न्मा ना न्न ही ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.