अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥

अन्वयः AI महीभृताम् यत् यत् उच्चैः अलङ्घ्यम् (अस्ति), तत् तत् उद्वीक्ष्य ज्यायसीम् प्रियताम् मा गात्। (अन्यथा) महताम् तुङ्गता केन (स्यात्)?
English Summary AI 'One should not, upon seeing whatever is lofty and unassailable among the great (like kings or mountains), develop an excessive attachment or awe. If one did, by what means would the greatness of the truly great ever be established (if not by overcoming such challenges)?'
सारांश AI पर्वतों की दुर्गम ऊँचाई को देखकर यदि महापुरुष ऊँचा उठने का लक्ष्य त्याग दें, तो फिर संसार में श्रेष्ठ पुरुषों की महत्ता कैसे सिद्ध होगी?
घण्टापथव्याख्या (मल्लिनाथः) अलङ्घ्यमिति ॥ महीभृतां पर्वतानां संबन्धि यद्यच्छृङ्गादिकमुच्चैरुन्नतं तत्तदलङ्घ्यमुद्वीक्ष्योत्प्रेक्ष्य । तर्कयित्वेति यावत् । महतां महात्मनां तुङ्गता मानौन्नत्यं ज्यायसीं प्रियतां प्रियत्वं केन हेतुना मा गात् । न केनापि । प्रियत्वं गच्छत्येवेत्यर्थः । आशिषि माङि लुङ् । अटोऽपवादः। दैवादनिच्छतोऽपीच्छामुत्पादयत्येवौषधवदित्यर्थः । आशंसनार्थमाशीःप्रयोगः । उद्धीक्ष्येत्यसमानकर्तृकत्वनिर्देशः क्वचित्प्रयोगदर्शनात्सोढव्यः। केचित् उद्वीक्ष्यम् इति पठन्ति । तत्र यद्यदुच्चैस्तत्तदलङ्घ्यमुद्वीक्ष्यमवलोकनीयं न चोल्लङ्घनीयमिति । अतो महतामित्यादि योजयन्ति ॥
पदच्छेदः AI
अलङ्घ्यम्अलङ्घ्य (१.१) unassailable
तत्तद् (२.१) that
तत्तद् (२.१) that
उद्वीक्ष्यउद्वीक्ष्य (उद्√ईक्ष्+ल्यप्) seeing
यत्यद् (१.१) whatever
यत्यद् (१.१) whatever
उच्चैःउच्चैस् lofty
महीभृताम्महीभृत् (६.३) of the great (kings/mountains)
प्रियताम्प्रियता (२.१) fondness
ज्यायसीम्ज्यायसी (२.१) excessive
मामा do not
गात्गात् (√गा कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) let one go to
महताम्महत् (६.३) of the great
केनकिम् (३.१) by what means
तुङ्गतातुङ्गता (१.१) greatness (be established)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ङ्घ्यं त्त दु द्वी क्ष्य
द्य दु च्चै र्म ही भृ ताम्
प्रि तां ज्या सीं मा गा
न्म तां के तु ङ्ग ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.