शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥

अन्वयः AI शक्तिवैकल्यनम्रस्य, निःसारत्वात् लघीयसः, मानहीनस्य जन्मनः तृणस्य च गतिः समा (भवति)।
English Summary AI 'The fate of a person who is bent due to lack of power, who is insignificant because of worthlessness, and who is devoid of honor, is exactly the same as that of a blade of grass.'
सारांश AI शक्तिहीनता के कारण झुके हुए, सारहीन और आत्मसम्मान से रहित मनुष्य की गति एक तुच्छ तिनके के समान ही होती है।
घण्टापथव्याख्या (मल्लिनाथः) शक्तीति ॥ शक्तिवैकल्येनोत्साहादिशक्तिवैधुर्येणावृष्टम्भसामर्थ्यविरहेण च नम्रस्य प्रह्वीभूतस्य विधेयभूतस्य च निःसारत्वाद्दुर्बलत्वात्। स्थिरांशरहितत्वाच्च। सारो वले स्थिरांशे चइत्यमरः (अमरकोशः ३.३.१७९ ) । लघीयसो गौरवहीनस्य नीरसस्य च। मानहीनस्य जन्मिनो जन्तोः। व्रीह्यादित्वादिनिः।तृणस्य च गतिरवस्था समेति मग्नहीरस्य तृणादपि निकृष्टत्वान्न त्याज्यो मान इति भावः । श्लेषालंकारेस्यं तदनुप्राणितेयमुपमेत्यनेकार्थदीपिकेति व्यज्यते॥ मानत्यागे दोषमुक्त्वा तत्सद्भावे षड्भिर्गुणमाहअलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता
पदच्छेदः AI
शक्तिवैकल्यनम्रस्यशक्तिवैकल्यनम्र (६.१) of one bent by lack of power
निःसारत्वात्निःसारत्व (५.१) due to worthlessness
लघीयसःलघीयस् (६.१) of the insignificant
जन्मिनःजन्मिन् (६.१) person
मानहीनस्यमानहीन (६.१) of one devoid of honor
तृणस्यतृण (६.१) of a blade of grass
and
समासम (१.१) is the same
गतिःगति (१.१) the fate
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ति वै ल्य म्र स्य
निः सा त्वा ल्ल घी सः
न्मि नो मा हि स्य
तृ स्य मा तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.