सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥

अन्वयः AI गुणप्रियः ज्यायान् एव नः अन्त्याम् दशाम् सोढवान्। हि द्विषाम् भङ्गः सुलभा, सत्सु अवाच्यता दुर्लभा।
English Summary AI 'Only our elder brother (Yudhishthira), a lover of virtue, could have endured our wretched condition. For, while the defeat of one's enemies is relatively easy to achieve, attaining a state of blamelessness among the virtuous is extremely difficult.'
सारांश AI गुणप्रिय ज्येष्ठ भ्राता ने उस चरम दुर्दशा को सहन किया, क्योंकि शत्रुओं को पराजित करना सुलभ है किंतु सज्जनों के मध्य अपयश से बचना कठिन है।
घण्टापथव्याख्या (मल्लिनाथः) सोढवानिति ॥ गुणाः प्रिया यस्य स गुणप्रियः प्रियगुणः । वा प्रियस्य इति परनिपातः।ज्यायानग्रजो युधिष्ठिर एव। वृद्धशब्दादीयसुनि ज्यादादीयसः (अष्टाध्यायी ६.४.१६० ) इत्याकारादेश:। नोऽस्माकमन्ते भवामन्त्यां निकृष्टां दशामवस्थां सोढवान्न तु वयम् । किंतु तदवरुद्धा इति भावः । ननु शत्रूपेक्षा महानर्थकारिणीत्याशङ्क्याह-सुलभ इति । द्विषां विद्विषां भङ्गः सुलभः । कालान्तरेऽपीति शेषः । सत्सु सज्जनेष्ववाच्यतानिन्द्यता दुर्लभा न तु शत्रूपेक्षा। हि प्रसिद्धौ । शत्रूपेक्षातो लोकापवाद एव बलवान् । तस्योत्पन्नस्य पुनरपतिविधेयत्वात्स च समयोल्लङ्घने स्यादेवेति भावः ॥ ननु शत्रुवधे राज्ञां को नामापवादः प्रत्युत कीर्त्तिरेवेत्याशङ्क्य सत्यं स एव समयोल्लङ्घनकलङ्कितकीर्त्या महानिन्दानिदानमित्याशयेनाह
पदच्छेदः AI
सोढवान्सोढवत् (√सह्+क्तवतु, १.१) endured
नःअस्मद् (६.३) our
दशाम्दशा (२.१) condition
अन्त्याम्अन्त्य (२.१) wretched
ज्यायान्ज्यायस् (१.१) the elder brother
एवएव only
गुणप्रियःगुणप्रिय (१.१) the lover of virtue
सुलभःसुलभ (१.१) is easy to achieve
हिहि for
द्विषाम्द्विष् (६.३) of enemies
भङ्गःभङ्ग (१.१) the defeat
दुर्लभादुर्लभ (१.१) is difficult to attain
सत्सुसत् (७.३) among the good
अवाच्यताअवाच्यता (१.१) blamelessness
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सो वा न्नो शा न्त्यां
ज्या या ने गु प्रि यः
सु भो हि द्वि षां ङ्गो
दु र्ल भा त्स्व वा च्य ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.