आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥

अन्वयः AI परिकृशैः अपि आसक्त-भर-नीकाशैः अङ्गैः (युक्तः), अद्यूनः (सः) प्रायः सद्-गृहिण्या इव यष्ट्या अवलम्बितः (आसीत्) ।
English Summary AI Though his limbs were very emaciated, they appeared to have substance. He, being strong, was supported by a staff, much like a good householder is often supported by his virtuous wife.
सारांश AI भारी बोझ से दबे हुए के समान दुर्बल अंगों वाले होने पर भी वे दुखी नहीं थे और लाठी का सहारा इस प्रकार ले रहे थे जैसे वह कोई पतिव्रता पत्नी हो।
घण्टापथव्याख्या (मल्लिनाथः) आसक्तेति ॥ पुनश्च । परिकृशैः परिक्षीणैरप्यासक्तभरनीकाशैर्भाराकान्तसदृशैः । सभारवद्गुरूभवद्भिरित्यर्थः।इकः काशे (अष्टाध्यायी ६.३.१२३ ) इति दीर्घः।अङ्गैरुपलक्षितः।कार्श्याल्लधून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एवाद्यून औदरिकः आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते इत्यमरः (अमरकोशः ३.१.२१ ) । आङ्पूर्वाद्वीव्यतेः क्तः। च्छ्वो: शूडनुनासिके च इत्यूठादेशः । दिवोऽविजिगीषायाम् (अष्टाध्यायी ८.२.४९ ) इति निष्ठानत्वम् । सद्गृहिण्यानुकूलकलत्रेणेव प्रायः प्राचुर्येण यष्ट्यावलम्बनदण्डेनावलम्बितो धारितः । न तु स्वशक्त्येति भावः॥
पदच्छेदः AI
आसक्तभरनीकाशैःआसक्तभरनीकाश (३.३) which appeared to possess substance
अङ्गैःअङ्ग (३.३) with limbs
परिकृशैःपरिकृश (३.३) very emaciated
अपिअपि even though
अद्यूनःअद्यून (१.१) not feeble
सद्गृहिण्यासद्गृहिणी (३.१) by a good housewife
इवइव like
प्रायःप्रायस् mostly
यष्ट्यायष्टि (३.१) by a staff
अवलम्बितःअवलम्बित (अव√लम्ब्+क्त, १.१) supported
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्त नी का शै
ङ्गैः रि कृ शै पि
द्यू नः द्गृ हि ण्ये
प्रा यो ष्ट्या म्बि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.