Loading data... On slow networks this could take a few minutes.
100%

दुरक्षान्दीव्यता राज्ञा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥

अन्वयः AI दुरक्षान् दीव्यता राज्ञा राज्यम्, आत्मा, वयम्, वधूः (च) पणताम् नीतानि। नूनम् भवितव्यता ईदृशी (अस्ति)।
English Summary AI 'By our king, who was gambling with crooked dice, the kingdom, himself, we brothers, and our wife were all turned into stakes in the game. Surely, such is the power of destiny.'
सारांश AI कपटपूर्ण जुए में महाराज युधिष्ठिर द्वारा राज्य, स्वयं, हम भाइयों और द्रौपदी को दाँव पर लगा दिया गया; निश्चित ही यह प्रारब्ध का ही खेल था।
घण्टापथव्याख्या (मल्लिनाथः) दुरक्षानिति ॥ दुरक्षान्। कपटपाशकैरित्यर्थः । दिवः कर्म च (अष्टाध्यायी १.४.४३ ) इति करणे कर्मसंज्ञा। दीव्यता क्रीडता । आहूतो न निवर्तेत द्यूतादपि रणादपि इति शास्त्रात् । न तु व्यसनितयेति भावः। राज्ञा युधिष्ठिरेण राज्यं राष्ट्रमात्मा स्वयं वयं चत्वारोऽनुजा वधूर्जाया द्रौपदी च पणतां ग्लहत्वम्।पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते इत्यमरः (अमरकोशः २.१०.४५ ) । नीतानि । सर्वं द्यूते राज्ञा हारितमित्यर्थः । नीतानीति नपुंसकैकशेषः। नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः। ननु सर्वज्ञस्य राज्ञः कथमियमविमृष्यकारिता तत्राहभवितव्यतानर्थानामवश्यंभावितेदृशी नूनं निश्चितम् । नात्र संशय इत्यर्थः । बुद्धिरपि भवितव्यतानुसारिण्येव । न स्वतन्त्रेत्यर्थः ॥ ननु तथापि तवैव तेष्वासङ्गो न तेषां त्वयि तत्राह
पदच्छेदः AI
दुरक्षान्दुरक्ष (२.३) with bad dice
दीव्यतादीव्यत् (√दिव्+शतृ, ३.१) by the gambling
राज्ञाराजन् (३.१) king (Yudhishthira)
राज्यम्राज्य (१.१) the kingdom
आत्माआत्मन् (१.१) himself
वयम्अस्मद् (१.३) we
वधूःवधू (१.१) and our wife
नीतानिनीत (√नी+क्त, १.३) were made
पणताम्पणता (२.१) into a stake
नूनम्नूनम् surely
ईदृशीईदृशी (१.१) such
भवितव्यताभवितव्यता (१.१) is destiny
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दु क्षा न्दी व्य ता रा ज्ञा
रा ज्य मा त्मा यं धूः
नी ता नि तां नू
मी दृ शी वि व्य ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.