कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् ।
भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥

अन्वयः AI कृष्णद्वैपायनादेशात् ईदृशम् व्रतम् बिभर्मि। सु-आराध्यस्य मरुत्वतः आराधने भृशम् यत्तः (अस्मि)।
English Summary AI 'By the command of Krishna Dvaipayana (Vyasa), I am undertaking this vow. I am intensely engaged in the worship of Indra, who is most worthy of adoration.'
सारांश AI महर्षि व्यास के आदेश से मैं इस कठिन व्रत को धारण कर रहा हूँ और अपने आराध्य देव इंद्र को प्रसन्न करने के लिए पूर्णतः प्रयत्नशील हूँ।
घण्टापथव्याख्या (मल्लिनाथः) कृष्णेति ॥ द्वीपोऽयनं जन्मभूमिर्यस्य स द्वीपायनः । स एव द्वैपायनोव्यासः। प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । स एव कृष्णवर्णत्वात्कृष्णद्वैपायनश्च । तस्यादेशानुपदेशादी दृशम् । विरुद्धवेषमित्यर्थः। व्रतं तपोर्नियमं बिभर्मि धारयामि। न तु स्वेच्छयेति भावः। अथोपास्यां देवतामाह-भृशमिति । स्वाराध्यस्य सुखमाराध्यस्य । प्रादिसमासः स्वाराधस्य इति पाठ उपसृष्टात्खल्प्रत्ययः । मरुत्वत, इन्द्रस्य । भृशं सम्यगाराधने यत्तः। प्रयत्नवानित्यर्थः । तस्य क्षत्रियदैवतत्वादिति भावः॥ ननु भवादृशभ्रातृसहायस्य महावीरस्य युधिष्ठिरस्य कथमरिपरिभवप्राप्तिरित्यत्त आह
पदच्छेदः AI
कृष्णद्वैपायनादेशात्कृष्णद्वैपायनआदेश (५.१) by the command of Krishna Dvaipayana (Vyasa)
बिभर्मिबिभर्मि (√भृ कर्तरि लट् (परस्मै.) उ.पु. एक.) I bear
व्रतम्व्रत (२.१) this vow
ईदृशम्ईदृश (२.१) such
भृशम्भृशम् intensely
आराधनेआराधन (७.१) in the worship
यत्तःयत्त (√यत्+क्त, १.१) engaged
स्वाराध्यस्यसुआराध्य (६.१) of the one worthy of worship
मरुत्वतःमरुत्वत् (६.१) of Indra
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कृ ष्ण द्वै पा ना दे शा
द्बि र्मि व्र मी दृ शम्
भृ मा रा ने त्तः
स्वा रा ध्य स्य रु त्व तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.