क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥

अन्वयः AI अहम् पाण्डोः तनयः, क्षत्रियः, पार्थः, धनंजयः (अस्मि)। दायादैः प्रास्तस्य ज्येष्ठस्य भ्रातुः शासने स्थितः (अस्मि)।
English Summary AI 'I am a Kshatriya, the son of Pandu, also known as Partha and Dhananjaya. I am currently living under the command of my eldest brother, who has been overthrown by his own kinsmen.'
सारांश AI मैं महाराज पाण्डु का पुत्र क्षत्रिय अर्जुन हूँ, जो अपने संबंधियों द्वारा कपटपूर्वक राज्य से वंचित किए गए ज्येष्ठ भ्राता की आज्ञा में स्थित हूँ।
घण्टापथव्याख्या (मल्लिनाथः) क्षत्रिय इति । अहं क्षत्रियः क्षत्रियकुले जातः । तत्रापि महाकुले प्रसूतः, वीरसंतानश्चेत्याह-पाण्डोस्तनय इति । तत्रापि कौन्तेयोऽस्मि, न माद्रेय इत्याह-पार्थ इति । पृथा कुन्ती तत्सुतः पार्थः। तस्यापत्यम् (अष्टाध्यायी ४.१.९२ ) इत्यण् । अर्जुनोऽहं महावीरश्चेत्याह-धनंजय इति । उत्तरकुरून्विजित्य धनाहरणाद्धनंजयोऽस्मीत्यर्थः । खचि मुमागमः इत्युक्तं प्राक् । धनंजय इत्युक्ते शरीरस्थो वायुः सर्पविशेषो वा स्यात्तदर्थं पार्थः, गन्धर्वोऽपि कश्चित्पृथासुतोऽस्ति तदर्थं पाण्डोः सुतः, नैमिषारण्ये पाण्डुर्विप्रस्तत्पत्नी पृथा नाम काचिद्ब्राह्मणी तत्पुत्रोऽपि स्यात्तदर्थं क्षत्रिय इति । अथैवं चेत्किमर्थं तर्हि तपस्यसि, मोक्षार्थं वा किं न तपस्यसि, तत्राह-स्थित इति । दायं पैतृकं धनमाददत इति दायादा ज्ञातयः।दायादो ज्ञातिपुत्रयोःइति,विभक्तपितृद्रव्यं च दायमाहुर्मनीषिण: इति च विश्वः । स्वामीश्वरादिसूत्रेण सोपसर्गादपि दायादेति कप्रत्ययान्तो निपातनात्साधुः। तैः प्रास्तस्य राज्यान्निरस्तस्य । वैरिनिर्यातनार्थिन इत्यर्थः।ज्येष्ठस्य भ्रातुर्युधिष्ठिरस्य । वृद्धशब्दादिष्ठन्प्रत्यय:। वृद्धस्य च ज्यादेशः । शासने निदेशे स्थितः। तदाज्ञया तपस्यामीत्यर्थः । अन्यथा मानहानिः सौभ्रात्रभङ्गः पूज्यपूजाव्यतिक्रमदोषश्च स्फुरतीति भाव:।अत एव हिंसैकरसस्य रागद्वेषकषायितचेतसः कुतो मे मोक्षाधिकार इति तात्पर्यम् । सार्थविशेषणत्वात्परिकरालंकारः॥ यदुक्तम् विरुद्धः केवलं वेषः इति, तत्रोत्तरमाह
पदच्छेदः AI
क्षत्रियःक्षत्रिय (१.१) a Kshatriya
तनयःतनय (१.१) the son
पाण्डोःपाण्डु (६.१) of Pandu
अहम्अस्मद् (१.१) I
पार्थःपार्थ (१.१) Partha
धनंजयःधनंजय (१.१) Dhananjaya
स्थितःस्थित (√स्था+क्त, १.१) am situated
प्रास्तस्यप्रास्त (प्र√अस्+क्त, ६.१) of the one cast down
दायादैःदायाद (३.३) by kinsmen
भ्रातुःभ्रातृ (६.१) of the brother
ज्येष्ठस्यज्येष्ठ (६.१) eldest
शासनेशासन (७.१) in the command
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ष त्रि स्त यः पा ण्डो
हं पा र्थो नं यः
स्थि तः प्रा स्त स्य दा या दै
र्भ्रा तु र्ज्ये ष्ठ स्य शा ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.