Loading data... On slow networks this could take a few minutes.
100%

न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥

अन्वयः AI तात, ते अमुष्य यत्नस्य पौर्वापर्यम् (मया) न ज्ञातम्, येन (त्वम्) मुनिभिः तुल्यम् माम् धर्मम् शासितुम् इच्छसि।
English Summary AI Arjuna addresses Indra: 'O revered one, I do not understand the propriety of this effort of yours, by which you wish to instruct me in righteousness, just as the great sages do.'
सारांश AI हे तात! मैं आपके इस प्रयास के प्रयोजन को नहीं समझ पा रहा हूँ, जिसके माध्यम से आप मुझे मुनियों के समान धर्म की शिक्षा देना चाहते हैं।
घण्टापथव्याख्या (मल्लिनाथः) नेति॥ हे तात,अमुष्य यत्नस्य तपोरूपस्यास्य मदीयोद्योगस्य पूर्वं चापरं च पूर्वापरे। त एवं पौर्वापर्यं कारणं फलं च । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यन्प्रत्ययः । ते तव न ज्ञातम् । त्वया न ज्ञायत इत्यर्थः । मतिबुद्धि- (अष्टाध्यायी ३.२.१८८ ) इत्यादिना वर्तमाने क्तः। तद्योगादेव षष्ठी । कुतः । येन कारणेन मां मुनिभिस्तुल्यं सदृशं धर्मं मोक्षधर्मं शासितुमुपदेष्टुमिच्छसि । शासिरयं दुहादित्वाद्विकर्मको ज्ञेयः ॥ अथ पौर्वापर्यमज्ञात्वाप्युपदेशे दोषमाह
पदच्छेदः AI
not
ज्ञातम्ज्ञात (√ज्ञा+क्त, १.१) is understood
ताततात (८.१) O revered one
यत्नस्ययत्न (६.१) of the effort
पौर्वापर्यम्पौर्वापर्य (१.१) the propriety
अमुष्यअदस् (६.१) of this
तेयुष्मद् (६.१) your
शासितुम्शासितुम् (√शास्+तुमुन्) to instruct
येनयद् (३.१) by which
माम्अस्मद् (२.१) me
धर्मम्धर्म (२.१) in dharma
मुनिभिःमुनि (३.३) with the sages
तुल्यम्तुल्य equally
इच्छसिइच्छसि (√इष् कर्तरि लट् (परस्मै.) म.पु. एक.) you wish
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा तं ता त्न स्य
पौ र्वा र्य मु ष्य ते
शा सि तुं ये मां र्मं
मु नि भि स्तु ल्य मि च्छ सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.