Loading data... On slow networks this could take a few minutes.
100%

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥

अन्वयः AI कामाः श्रद्धेयाः इव भूत्वा विप्रलब्धारः, प्रियाः इव भूत्वा विप्रियकारिणः, त्यजन्तः अपि सुदुस्त्यजाः भवन्ति । हि ते कष्टाः शत्रवः सन्ति ।
English Summary AI Desires, appearing trustworthy, are deceivers; appearing pleasant, they do unpleasant things. They are very difficult to abandon even as they are leaving you. Indeed, they are wicked enemies.
सारांश AI ये काम-भोग कष्टकारी शत्रु हैं; ये विश्वास दिलाकर ठगते हैं, प्रिय लगकर अनिष्ट करते हैं और स्वयं हमें त्यागते हुए भी हमारे द्वारा बड़ी कठिनाई से त्यागे जाते हैं।
घण्टापथव्याख्या (मल्लिनाथः) श्रद्धेया इति । श्रद्धातुमर्हाः श्रद्धेया विश्वसनीयास्तथा विप्रलब्धारः प्रतारकाः । विश्वासघातका इत्यर्थः । तथा प्रीणयन्तीति प्रियाः प्रीतिजनकाः।हगपध-इत्यादिना कप्रत्ययः । तथापि विप्रियकारिणो दुःखजननशीलाः । किं च । त्यजन्तोऽपि पुरुषं विहाय गच्छन्तोऽपि सुदुस्त्यजाः स्वयं तेन त्यक्तुमशक्याः कामा विषयाः कष्टाः कुत्सिताः शत्रवो हि । प्रसिद्धशत्रुतैधर्म्यादिति भावः । अत्र श्रद्धेयत्वादीनां विप्रलम्भकत्वादीनां चैकत्रविरोधो विषयस्वाभाव्येन समाधीयत इति विरोधाभासोऽलंकारः । तेने च कामानां प्रसिद्धशत्रुवैधर्म्य व्यतिरेकेण व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ तर्हि किं कर्तव्यमित्याशङ्क्यो पसंहरन्नाह
पदच्छेदः AI
श्रद्धेयाःश्रद्धेय (श्रत्√धा+यत्, १.३) trustworthy
विप्रलब्धारःविप्रलब्धृ (वि+प्र√लभ्+तृच्, १.३) deceivers
प्रियाःप्रिय (१.३) pleasing
विप्रियकारिणःविप्रियकारिन् (१.३) doers of unpleasant things
सुदुस्त्यजाःसुदुस्त्यज (१.३) very difficult to abandon
त्यजन्तःत्यजत् (√त्यज्+शतृ, १.३) even while abandoning
अपिअपि even
कामाःकाम (१.३) desires
कष्टाःकष्ट (१.३) wicked
हिहि indeed
शत्रवःशत्रु (१.३) enemies
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्र द्धे या वि प्र ब्धा रः
प्रि या वि प्रि का रि णः
सु दु स्त्य जा स्त्य न्तो ऽपि
का माः ष्टा हि त्र वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.