परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥

अन्वयः AI अविधेयेन्द्रियः नरः अर्थसंसिद्धौ परवान्, नीचवृत्तिः, अपत्रपः सन् पुंसां विधेयतां गौः इव एति ।
English Summary AI A person whose senses are uncontrolled becomes dependent on others for achieving their goals, resorts to low conduct, becomes shameless, and ultimately comes under the control of other people, like a cow.
सारांश AI जिसकी इंद्रियां वश में नहीं हैं, वह अपनी स्वार्थ-सिद्धि के लिए निर्लज्ज होकर दूसरों के अधीन हो जाता है और बैल की भांति पराधीनता को प्राप्त करता है।
घण्टापथव्याख्या (मल्लिनाथः) परवानिति ॥ अर्थसंसिद्धावभ्यवहारादिस्वार्थसाधने परवान्पराधीनः । परतन्त्रः पराधीनः परवान् इत्यमरः (अमरकोशः ३.१.१६ ) । नीचवृत्तिः कर्षणवहनादिनिकृष्टकर्मापत्रपो निर्लज्जोऽविधेयेन्द्रियोऽजितेन्द्रियः पुमान्गौर्बलीवर्द इव पुंसां विधेयतां यथोक्तकारिताम् । प्रेष्यतामिति यावत् । विधेयो विनयग्राही वचनेस्थित आश्रवः इत्यमरः (अमरकोशः ३.१.२४ ) । एति प्राप्नोति । उपमालंकारोऽयम्-प्रकृताप्रकृतयोरर्थसाधर्म्याच्छेषे तु शब्दमात्रसाधर्म्यम् इति । न केवलं हिंसादिदोषमूलत्वाद्विषयाणां हेयत्वम् । किंत्वपारमार्थिकत्वादपीत्याह
पदच्छेदः AI
परवान्परवत् (१.१) dependent on others
अर्थसंसिद्धौअर्थसंसिद्धि (७.१) in the accomplishment of objectives
नीचवृत्तिःनीचवृत्ति (१.१) of low conduct
अपत्रपःअपत्रप (अप√त्रप्+अच्, १.१) shameless
अविधेयेन्द्रियःअविधेयइन्द्रिय (१.१) one whose senses are uncontrolled
पुंसाम्पुंस् (६.३) of men
गौःगो (१.१) a cow
इवइव like
एतिएति (√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) attains
विधेयताम्विधेयता (२.१) subservience
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा र्थ सं सि द्धौ
नी वृ त्ति त्र पः
वि धे ये न्द्रि यः पुं सां
गौ रि वै ति वि धे ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.