Loading data... On slow networks this could take a few minutes.
100%

जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥

अन्वयः AI अस्य जन्मिनः स्थितिं लक्ष्मीम् इव चलाचलां विद्वान् भवान् न्याय्यं मा स्म वधीः । हि साधवः न्यायाधाराः भवन्ति ।
English Summary AI You, who know that the existence of any living being is as unsteady as fortune, should not destroy what is just. For good people are the very foundation of justice.
सारांश AI प्राणियों की स्थिति को लक्ष्मी के समान चंचल जानकर आप न्यायोचित मार्ग का त्याग न करें, क्योंकि सज्जनों का एकमात्र आधार न्याय ही होता है।
घण्टापथव्याख्या (मल्लिनाथः) जन्मिन इति ॥ अस्य जन्मिन उत्पत्तिधर्मिकस्य शरीरिणः । व्रीह्यादिस्वादिनिः। स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मिधर्मत्वादेव चलाम् । अनित्यामित्यर्थः । चलतेः पचाद्यच् । चरिचलिपतिवदीनां वा द्वित्वमच्याक्वाभ्यासस्येति वक्तव्यम् इति द्विर्भावः । अभ्यासस्यागागमश्च । विद्वान । जानन्नित्यर्थः । विदेः शतुर्वसुः (अष्टाध्यायी ७.१.३६ ) इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । धर्मपथ्यर्थन्यायादनपेते (अष्टाध्यायी ४.४.९२ ) इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयेत्यर्थः । स्मोत्तरे लङ् च (अष्टाध्यायी ३.३.१७६ ) इति लुङ् । लुङि च (अष्टाध्यायी २.४.४३ ) इति हनो वधादेशः। शेषे प्रथमः (अष्टाध्यायी १.४.१०८ ) इति प्रथमपुरुषः । हि यस्मात्साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न् स्यादिति भाव:। न्यायाचाराः इति पाठे न्यायमाचरन्तीतिः तथोक्ताः । कर्मण्यण् ॥ तर्हि किं मे कर्तव्यं तत्राह:
पदच्छेदः AI
जन्मिनःजन्मिन् (६.१) of a living being
अस्यइदम् (६.१) this
स्थितिम्स्थिति (२.१) existence
विद्वान्विद्वस् (√विद्+क्वसु, १.१) knowing
लक्ष्मीम्लक्ष्मी (२.१) fortune
इवइव like
चलाचलाम्चलाचल (२.१) unsteady
भवान्भवत् (१.१) you
मामा do not
स्मस्म (used with mā for prohibition)
वधीःमा स्म वधीः (√वध् कर्तरि लुङ् (परस्मै.) म.पु. एक.) destroy
न्याय्यम्न्याय्य (२.१) what is just
न्यायाधाराःन्यायआधार (१.३) are the support of justice
हिहि for
साधवःसाधु (१.३) good people
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्मि नो ऽस्य स्थि तिं वि द्वां
ल्ल क्ष्मी मि ला लाम्
वा न्मा स्म धी न्न्या य्यं
न्या या धा रा हि सा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.