Loading data... On slow networks this could take a few minutes.
100%

तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥

अन्वयः AI यदा इष्टेन रहितः भवति, तदा रम्याणि अरम्याणि भवन्ति, प्रियाः शल्यम् भवन्ति, तदा असवः अपि शल्यम् भवन्ति । तदा सबन्धुः सन् अपि एकाकी भवति ।
English Summary AI When a person is separated from their beloved, charming things become uncharming, and loved ones and even life itself become a source of pain. Then, even while surrounded by relatives, one is truly alone.
सारांश AI जब मनुष्य अपने प्रिय इष्ट से रहित होता है, तब सुंदर वस्तुएं भी अरुचिकर हो जाती हैं, प्रियजन शूल के समान चुभते हैं और वह सगे-संबंधियों के बीच भी स्वयं को अकेला पाता है।
घण्टापथव्याख्या (मल्लिनाथः) तदेति ॥ तदा रम्याण्यप्यरम्याण्यमनोहराणि भवन्ति । किंबहुना प्रिया असवः प्राणा अपि शल्यम् । शल्यवदसह्या भवन्तीत्यर्थः । किं च । तदा सबन्धुः सन्नप्येकाक्यसहाय एव । एकादाकिनिच्चासहाये (अष्टाध्यायी ५.३.५२ ) इत्याकिनिच्प्रत्ययः। यदेष्टेन रहितः ॥
पदच्छेदः AI
तदातदा then
रम्याणिरम्य (१.३) charming things
अरम्याणिअरम्य (१.३) become uncharming
प्रियाःप्रिय (१.३) loved ones
शल्यम्शल्य (१.१) a source of pain
तदातदा then
असवःअसु (१.३) life itself
तदातदा then
एकाकीएकाकिन् (१.१) alone
सबन्धुःसबन्धु (१.१) with relatives
सन्सत् (√अस्+शतृ, १.१) being
इष्टेनइष्ट (√इष्+क्त, ३.१) from the beloved
रहितःरहित (√रह्+क्त, १.१) separated
यदायदा when
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा म्या ण्य म्या णि
प्रि याः ल्यं दा वः
दै का की न्धुः
न्नि ष्टे हि तो दा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.