Loading data... On slow networks this could take a few minutes.
100%

कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥

अन्वयः AI यत् सम्पदः अशीलेषु चञ्चलाः भवन्ति इति स्तुतिपदे कः अपवादः? क्षुद्राः सम्पदः साधुवृत्तान् अपि विक्षिपन्ति एव ।
English Summary AI What blame is there in the praiseworthy fact that fortunes are fickle towards the ill-behaved? However, these base fortunes confound even the virtuous.
सारांश AI यदि लक्ष्मी दुष्टों के पास रहकर चंचलता दिखाती है तो इसमें क्या निंदा? निंदा तो तब है जब नीच संपत्तियां सदाचारी सज्जनों को भी विक्षुब्ध कर देती हैं।
घण्टापथव्याख्या (मल्लिनाथः) क इति ॥ संपदोऽशीलेषु दुःशीलेषु विषये न तद्विरुद्धमुच्यते यच्चञ्चला इति । अतः स्तुतिपदे स्तुतिविषये तत्र कोऽपवादः का निन्दा । किंतु क्षुद्राः संपदः साधुवृत्तानपि विक्षिपन्त्येव जहत्येव । तदेव तासां निन्दापदमित्यर्थः । तस्मादर्थो न पुरुषार्थ इति संदर्भार्थः ॥ ननु नार्थमहमर्थये । किंतु वीरधर्ममनुपालयन्वैरनिर्यातनमिच्छामीत्याशङ्क्य तदपि परपीडात्मकत्वादयुक्तमिति श्लोकचतुष्टयेनाचष्टे
पदच्छेदः AI
कःकिम् (१.१) what
अपवादःअपवाद (अप√वद्+घञ्, १.१) blame
स्तुतिपदेस्तुतिपद (७.१) in the object of praise
यत्यत् that
अशीलेषुअशील (७.३) towards the ill-behaved
चञ्चलाःचञ्चला (१.३) are fickle
साधुवृत्तान्साधुवृत्त (२.३) the well-behaved
अपिअपि even
क्षुद्राःक्षुद्र (१.३) base
विक्षिपन्तिविक्षिपन्ति (वि√क्षिप् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) confound
एवएव indeed
सम्पदःसम्पद् (१.३) fortunes
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
को ऽप वा दः स्तु ति दे
शी ले षु ञ्च लाः
सा धु वृ त्ता पि क्षु द्रा
वि क्षि न्त्ये म्प दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.