Loading data... On slow networks this could take a few minutes.
100%

नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥

अन्वयः AI श्रियः जातु अन्तरज्ञाः न भवन्ति । आसाम् प्रियैः न भूयते । हि जन्तवः वामशीलाः सन्तः तासु आसक्ताः भवन्ति । अमी मूढाः एव ।
English Summary AI Fortunes are never discerning; one cannot become dear to them. Indeed, creatures are perverse by nature. These fools who are attached to fortunes are deluded.
सारांश AI लक्ष्मी न किसी के अंतर्मन को जानती है और न ही किसी की प्रिय होती है; फिर भी मूर्ख प्राणी इनमें आसक्त रहते हैं क्योंकि जीव स्वभाव से ही विपरीत आचरण वाले होते हैं।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ श्रियः संपदो जातु कदाचिदन्तरज्ञा नीचानीचविशेषाभिज्ञा न भवन्ति । अत एवासां श्रियां प्रियैर्न भूयते । न ता: कुत्राप्यनुरज्यन्तीत्यर्थः । नन्वयं श्रीदोषो न पुरुषदोष इति चेत्तत्राह-मूढा अमी जनास्तास्वननुरक्तास्वपि श्रीष्वासक्ताः। स्त्रीषिव श्रीष्वननुरक्तास्वनुरागः पुंसामेवायं दोष इत्यर्थः। किमर्थं तर्हि तास्वेव सर्वेषामासक्तिरित्यर्थान्तरं न्यस्यति– वामेति।जन्तवो वामशीला वक्रस्वभावा हि। स्वभावस्य दुर्वारत्वादिति भावः ॥ यदुक्तम् नान्तरज्ञाः श्रियः इति, तदेव भङ्ग्यन्तन्तरेणाह
पदच्छेदः AI
not
अन्तरज्ञाःअन्तरज्ञ (१.३) discerning
श्रियःश्री (१.३) fortunes
जातुजातु ever
प्रियैःप्रिय (३.३) by the dear ones
आसाम्इदम् (६.३) of them
not
भूयतेभूयते (√भू भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) one becomes
आसक्ताःआसक्त (आ√सञ्ज्+क्त, १.३) attached
तासुतद् (७.३) to them
अमीअदस् (१.३) these
मूढाःमूढ (√मुह्+क्त, १.३) fools
वामशीलाःवामशील (१.३) perverse in nature
हिहि indeed
जन्तवःजन्तु (१.३) creatures
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना न्त ज्ञाः श्रि यो जा तु
प्रि यै रा सां भू ते
क्ता स्ता स्व मी मू ढा
वा शी ला हि न्त वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.