Loading data... On slow networks this could take a few minutes.
100%

या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥

अन्वयः AI याः सत्सहायानां गम्याः, यासु खेदः अस्ति, यतः भयम् अस्ति, तासां सम्पदाम् विपदाम् इव किं यत् दुःखाय न भवति?
English Summary AI Fortunes are attainable only with good allies, involve exertion in their keeping, and are a source of fear. What aspect of these fortunes, just like calamities, does not lead to sorrow?
सारांश AI जो सज्जनों की सहायता से प्राप्त होती हैं और जिनमें निरंतर खेद एवं भय बना रहता है, ऐसी संपत्तियां विपत्तियों की भांति दुःखदायी क्यों नहीं होंगी?
घण्टापथव्याख्या (मल्लिनाथः) या इति ॥ याः संपदः सत्सहायानां विद्यमानसाधनानामेव पुंसां गम्याः साध्याः । विपदोऽपि सत्सहायानामेव गम्याः । निस्तीर्या इत्यर्थः । कृत्यानां कर्तरि वा (अष्टाध्यायी २.३.७१ ) इति षष्ठी । यासु सतीषु खेदो रक्षणादिक्लेशः । विपत्सु स्वत एवेति विशेषः। यतो याभ्यः संपद्भयो भयम् । अनेकानर्थमूलत्वादिति भावः । विदद्भयस्तु स्वरूपत एवेति भावः। किं बहुना । विपदामिव तासां संपदां संबन्धि । न किम् । अस्तीति शेषः । यद्दुःखाय न भवति । सर्वं दुःखावहमेवेति भावः । यदाहुः-अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥ इति । अतो हेया इति भावः । अत्र यन्न दुःखायेत्युत्तरवाक्यस्य यच्छब्दसामर्थ्यात्तासां किमिति पूर्णवाक्ये तच्छब्दोपादानं नापेक्षते । तदेतत्काव्यप्रकाशे स्पष्टम् ॥
पदच्छेदः AI
याःयद् (१.३) which (fortunes)
गम्याःगम्य (√गम्+यत्, १.३) are attainable
सत्सहायानाम्सत्सहाय (६.३) by those with good allies
यासुयद् (७.३) in which
खेदःखेद (१.१) exertion
भयम्भय (१.१) fear
यतःयतः from which
तासाम्तद् (६.३) of those
किम्किम् (१.१) what
यत्यद् (१.१) which
not
दुःखायदुःख (४.१) for sorrow
विपदाम्विपद् (६.३) of calamities
इवइव like
सम्पदाम्सम्पद् (६.३) of fortunes
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या म्याः त्स हा या नां
या सु खे दो यं तः
ता सां किं न्न दुः खा
वि दा मि म्प दाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.