मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥

अन्वयः AI हिंसादेः दोषस्य मूलम् अर्थकामौ मा स्म पुषः । हि तौ तत्त्वावबोधस्य दुरुच्छेदे उपप्लवौ स्तः ।
English Summary AI Do not nourish wealth and desire, which are the root of faults like violence. For those two are obstacles to the realization of truth, and are difficult to eradicate.
सारांश AI हिंसा आदि दोषों की जड़ अर्थ और काम का पोषण मत करो, क्योंकि ये दोनों तत्वज्ञान के मार्ग में कठिनता से दूर होने वाली बाधाएँ हैं।
घण्टापथव्याख्या (मल्लिनाथः) मूलमिति ॥ हिंसादेरिति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिशब्दादनृतस्तेयादीनां संग्रहः । दोषस्यावगुणस्य मूलं कारणभूतौ । स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम् इति भावः । अर्थकामौ मा स्म पुषो नोपचिनुष्व । स्मोत्तरे लुङ् च इति लुङ् ।पुषादि- (अष्टाध्यायी ३.१.५५ ) इत्यादिना च्लेरङ्मदेशः। हि यस्मात्तावर्थकामौ तत्त्वावबोधस्य तत्त्वज्ञानस्य । मोक्षसाधनस्येति शेषः । दुरुच्छेदौ दुर्वारावुपप्लवौ हिंसादिप्रवर्तकत्वादन्तकौ । अत: पुरुषार्थपरिपन्थिनावेतौ न पुरुषार्थावित्यर्थ: । मुक्तिप्रतिबन्धकत्वादपुरुषार्थावर्थकामावित्युक्तम् । तत्रार्थस्य दुःखैकनिदानत्वादप्यपुरुषार्थत्वमिति पञ्चभिः प्रपञ्चयति
पदच्छेदः AI
मूलम्मूल (२.१) the root
दोषस्यदोष (६.१) of the fault
हिंसादेःहिंसादि (६.१) of (the fault) beginning with violence
अर्थकामौअर्थकाम (२.२) wealth and desire
स्मस्म (used with mā for prohibition)
मामा do not
पुषःपुषः (√पुष् कर्तरि लुङ् (परस्मै.) म.पु. एक.) nourish
तौतद् (१.२) those two
हिहि for
तत्त्वावबोधस्यतत्त्वअवबोध (६.१) of the realization of truth
दुरुच्छेदेदुरुच्छेद (१.२) difficult to eradicate
उपप्लवौउपप्लव (१.२) obstacles
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मू लं दो स्य हिं सा दे
र्थ का मौ स्म मा पु षः
तौ हि त्त्वा बो स्य
दु रु च्छे दा वु प्ल वौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.