यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥

अन्वयः AI यः मूढः निःश्रेयसकरीः ग्लानिदोषच्छिदः स्वच्छाः क्रियाः वधोदर्काः करोति, सः अपः पङ्कयति ।
English Summary AI The fool who makes pure actions—which lead to salvation and cut away the faults of weariness—result in killing, is like one who muddies clean water.
सारांश AI जो व्यक्ति मोक्षदायिनी और पवित्र क्रियाओं को हिंसा युक्त बनाता है, वह उस मूर्ख के समान है जो थकान मिटाने वाले निर्मल जल को कीचड़युक्त कर देता है।
घण्टापथव्याख्या (मल्लिनाथः) य इति ॥ यः पुमान्निश्चितं श्रेयो निःश्रेयसं मुक्तिः ।'अचतर-'इत्यादिना समासान्तो निपातः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् इत्यमरः (अमरकोशः १.५.७ ) ।निःश्रेयसं कुर्वन्तीति निःश्रेयसकरीः । निःश्रेयसुहेतुनित्यर्थः । कृञो हेतुताच्छील्यानुलोम्येषु (अष्टाध्यायी ३.२.२० ) इति हेत्वर्थे टप्रत्ययः । टित्वान्ङीप् । क्रियास्तपोदानादिकर्माणि वधोदर्का हिंसाफलकाः करोति । उदर्कः फलमुत्तरम् इत्यमरः (अमरकोशः २.८.२९ ) । अत एव मूढः स पुमान् ग्लानिरेव दोषस्तं छिन्दत्वीति ग्लानिदोषच्छिदः पिपासाहारिणीः। क्विप्। स्वच्छा निर्मला अपः पङ्कयति पङ्कवतीः करोति।'णाविष्टवद्भावे विन्मतोर्लुक् (अष्टाध्यायी ५.३.६५ ) इति मतुपो लुक्।महाफलसाधनस्य तपसस्तुच्छफलैर्विनियोगः स्वच्छाम्दुनः पङ्कसंकरवत्प्रेक्षावद्भिर्गर्हित इत्यर्थः ।अत्र 'यत्तपसो वधोदर्कीकरणं तन्निर्मलस्य पयसः पङ्कसंकरीकरणम्'इति वाक्यार्थे वाक्यार्थान्तरमारोप्य प्रतिबिम्बकरणाक्षेपादसंभववस्तुसंबन्धाद्वाक्यार्थवृत्तिनिदर्शनालंकारः॥ नन्वर्थकामयोरपि मोक्षवत्पुरुषार्थत्वात्तपसस्तदर्थत्वे को दोषस्तत्राह
पदच्छेदः AI
यःयद् (१.१) he who
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) makes
वधोदर्काःवधोदर्क (२.३) result in killing
निःश्रेयसकरीःनिःश्रेयसकरिन् (२.३) actions that lead to ultimate good
क्रियाःक्रिया (२.३) actions
ग्लानिदोषच्छिदःग्लानिदोषच्छिद् (२.३) which cut away the faults of weariness
स्वच्छाःस्वच्छ (२.३) pure
सःतद् (१.१) he
मूढःमूढ (√मुह्+क्त, १.१) a fool
पङ्कयतिपङ्कयति (√पङ्क कर्तरि लट् (परस्मै.) प्र.पु. एक.) muddies
अपःअप् (२.३) the waters
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यः रो ति धो र्का
निः श्रे रीः क्रि याः
ग्ला नि दो च्छि दः स्व च्छाः
मू ढः ङ्क त्य पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.