Loading data... On slow networks this could take a few minutes.
100%

जयमत्रभवान्नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥

अन्वयः AI अत्रभवान् नूनम् अरातिषु जयम् अभिलाषुकः अस्ति । क्रोधलक्ष्म क्षमावन्तः क्व? आयुधं क्व? तपोधनाः क्व?
English Summary AI Your Honour is surely desirous of victory over enemies. But where is the mark of anger in the forgiving? Where is the weapon, and where are the ascetics? This implies a contradiction.
सारांश AI तुम निश्चित ही शत्रुओं पर विजय चाहते हो; परंतु क्रोध का प्रतीक शस्त्र कहाँ और क्षमावान तपस्वी कहाँ? दोनों में मेल नहीं है।
घण्टापथव्याख्या (मल्लिनाथः) जयमिति ॥ अत्रभवान् । पूज्य इत्यर्थः । इतरास्योऽपि दृश्यन्ते' इति प्रथमार्थे प्राग्दिशीयस्रल्प्रत्ययः। सुप्सुपेति समासः । 'त्रिषु तत्रभवान्पूज्यस्तथैवात्रभवानपि' इति यादवः । अरातिषु शत्रुषु विषये जयमभिलाषुको जयमिच्छुः । 'लषपत-' इत्यादिनोकञ्प्रत्ययः । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । नूनमिति निश्चये । 'नूनं तर्केऽपि निश्चये' इत्यमरः । क्रोधस्य लक्ष्म कोपस्य लिङ्गमायुधं क्व । क्षमावन्तः शान्तास्तपोधनाः क्व । क्रोधशान्त्योर्विरोधात्तत्कार्ययोः शस्त्रतपसोरप्येकत्रासंगतेश्च शस्त्रिणस्ते तपो जयार्थं न तु मोक्षार्थमिति निश्चय इत्यर्थः ॥ तपसो जयार्थत्वे दोषमाह
पदच्छेदः AI
जयम्जय (२.१) victory
अत्रभवान्अत्रभवत् (१.१) Your Honour
नूनम्नूनम् surely
अरातिषुअराति (७.३) over enemies
अभिलाषुकःअभिलाषुक (अभि√लष्+उकञ्, १.१) is desirous of
क्रोधलक्ष्मक्रोधलक्ष्मन् (१.१) the mark of anger
क्षमावन्तःक्षमावत् (१.३) the forgiving
क्वक्व where
आयुधम्आयुध (१.१) weapon
क्वक्व where
तपोधनाःतपोधन (१.३) ascetics
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र वा न्नू
रा ति ष्व भि ला षु कः
क्रो क्ष्म क्ष मा न्तः
क्वा यु धं क्व पो नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.