Loading data... On slow networks this could take a few minutes.
100%

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमम् ॥

अन्वयः AI प्राणभृतां भयंकरः, मृत्योः अपरः भुजः इव, तव असिः तपःस्थस्य तव शमं न समर्थयते ।
English Summary AI Your sword, which is terrifying to living beings like a second arm of Death, does not support the tranquility befitting you, who are engaged in penance.
सारांश AI प्राणियों के लिए यमराज की दूसरी भुजा के समान यह भयानक तलवार तुम्हारी तपस्या की शांति के अनुकूल नहीं है।
घण्टापथव्याख्या (मल्लिनाथः) भयंकर इति ॥ तथा मृत्योरपरो भुज इव प्राणभृतां प्राणिनां भयं करोतीति भयंकरः । मेघर्तिभयेषु कृञ्' इति खच्प्रत्ययः । 'अरुर्द्विष-' इत्यादिना मुमागमः । असिः खड्गः। तपसि तिष्ठतीति तपस्थः । तपश्चरन्नित्यर्थः । सुपि स्थः (अष्टाध्यायी ३.२.४ ) इति कप्रत्ययः। तस्य तव शमं शान्ति न समर्थयते न संभावयति । किं शान्तस्य शस्त्रेणेति भावः ॥ नन्वशान्तस्य किं तपसेत्याशङ्क्य जयार्थमित्याह
पदच्छेदः AI
भयंकरःभयंकर (१.१) fear-inspiring
प्राणभृताम्प्राणभृत् (६.३) of living beings
मृत्योःमृत्यु (६.१) of Death
भुजःभुज (१.१) arm
इवइव like
अपरःअपर (१.१) another
असिःअसि (१.१) sword
तवयुष्मद् (६.१) your
तपस्थस्यतपस्थ (६.१) of you who is engaged in penance
not
समर्थयतेसमर्थयते (सम्√अर्थ् +णिच् कर्तरि लट् (आत्मने.) प्र.पु. एक.) support
शमम्शम (२.१) tranquility
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यं रः प्रा भृ तां
मृ त्यो र्भु वा रः
सि स्त स्थ स्य
र्थ ते मम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.