Loading data... On slow networks this could take a few minutes.
100%

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥

अन्वयः AI च मुक्तिं प्रपित्सोः, कलेवरे निःस्पृहस्य, भूतानाम् अनभिद्रुहः ते महा-इषुधी भीमं धनुः च किम्?
English Summary AI And for you, who seeks liberation, is indifferent to the body, and wishes no harm to living beings, what is the purpose of these two great quivers and this formidable bow?
सारांश AI मोक्ष चाहने वाले और शरीर के प्रति निस्पृह तुम जैसे अहिंसक व्यक्ति के पास ये तरकश और भयानक धनुष क्यों हैं?
घण्टापथव्याख्या (मल्लिनाथः) प्रपित्सोरिति ॥ किं च। मुक्तिं प्रपित्सोः प्राप्तुमिच्छोः। सनि मीमा- (अष्टाध्यायी ७.४.५४ ) इत्यादिनेसादेशः। अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः। अतो मुमुक्षुत्वादेव कलेवरे शरीरे नि:स्पृहस्य गतस्पृहस्य । अतोनात्मरक्षार्थे धनुर्धारणं युक्तमित्यर्थः । नापि परहिसार्थमित्याहभूतानां जन्तूनाम् । क्ष्मादौ जन्तौ च भूतानि इति वैजयन्ती। क्रुधद्रुहोरुपसृष्टयोः कर्म (अष्टाध्यायी १.४.३८ ) इति कर्मसंज्ञायाम् कर्तृकर्मणोः कृति (अष्टाध्यायी २.३.६५ ) इति कर्तरि षष्ठी। अनभिद्रुहोऽहिंसकस्य । सत्सूद्विष— (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । ते तव महेषुधी महानिषङ्गी भीमं त्रासजनकं धनुश्च । न समर्थयते शममित्युत्तरेणान्वय: । समर्थयत इति वचनविपरिणाम: कार्यः
पदच्छेदः AI
प्रपित्सोःप्रपित्सु (प्र√पद्+सन्+उ, ६.१) of you who desires to attain
किम्किम् what is the use of
and
तेयुष्मद् (६.१) your
मुक्तिम्मुक्ति (२.१) liberation
निःस्पृहस्यनिःस्पृह (निर्√स्पृह्+क, ६.१) of you who is free from desire
कलेवरेकलेवर (७.१) for the body
महेषुधीमहत्इषुधि (१.२) two great quivers
धनुःधनुस् (१.१) bow
भीमम्भीम (१.१) formidable
भूतानाम्भूत (६.३) of living beings
अनभिद्रुहःअनभिद्रुह् (नञ्+अभि√द्रुह्+क्विप्, ६.१) of you who does not wish to harm
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र पि त्सोः किं ते मु क्तिं
निः स्पृ स्य ले रे
हे षु धी नु र्भी मं
भू ता ना भि द्रु हः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.