चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥

अन्वयः AI यत् त्वां कल्याणी मतिः उपस्थिता, तत् त्वम् चित्तवान् असि । केवलं विरुद्धः वेषः मे मनः संदेहयति ।
English Summary AI You are wise, since this noble thought has occurred to you. Only your contradictory attire—that of a warrior—causes doubt in my mind.
सारांश AI तुम बुद्धिमान हो कि तुम्हारे मन में ऐसा कल्याणकारी विचार आया, किंतु तुम्हारा विरोधाभासी वेश मेरे मन में संदेह उत्पन्न कर रहा है।
घण्टापथव्याख्या (मल्लिनाथः) चित्तवानिति ॥ चित्तवान्प्रशस्तचित्तोऽसि । प्रशंसायां मतुप् । कुतः । यतस्त्वां कल्याणी साध्वी । बह्वादिभ्यश्च (अष्टाध्यायी ४.१.४५ ) इति ङीप् । मतिरुपस्थिता संगता । किं तु केवलमेकं यथा तथा विरुद्धो वेषो में मनः संदेहयति संशययुक्तं करोति । यद्वा वेषः । केवलं वेष एवेत्यर्थः । केवलः कृत्स्न एके च, केवलं चावधारिते इत्युभयत्रापि शाश्वत:॥ वेषविरोधमेवाह
पदच्छेदः AI
चित्तवान्चित्तवत् (१.१) wise
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
कल्याणीकल्याणी (१.१) auspicious
यत्यत् that
त्वाम्युष्मद् (२.१) to you
मतिःमति (१.१) thought
उपस्थिताउपस्थित (उप√स्था+क्त, १.१) has arisen
विरुद्धःविरुद्ध (वि√रुध्+क्त, १.१) contradictory
केवलम्केवलम् only
वेषःवेष (१.१) attire
संदेहयतिसंदेहयति (सम्√दिह् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) causes doubt in
मेअस्मद् (६.१) my
मनःमनस् (२.१) mind
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चि त्त वा सि ल्या णी
त्त्वां ति रु स्थि ता
वि रु द्धः के लं वे षः
सं दे ति मे नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.