अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ॥

अन्वयः AI जन्मिनः सन्ततापदः च अन्तकः पर्यवस्थाता अस्ति । इति ज्ञात्वा भव्यः नरः त्याज्ये भवे स्थितम् मनः मुक्तौ उत्तिष्ठते ।
English Summary AI Death lies in wait for every being born, who is subject to constant calamities. Knowing this, a wise person directs their mind, which is in this transient world, towards liberation.
सारांश AI निरंतर विपत्तियों वाले इस संसार में जन्म लेने वालों के लिए मृत्यु निश्चित है, इसलिए सज्जन पुरुष संसार त्याग कर मोक्ष की ओर प्रवृत्त होते हैं।
घण्टापथव्याख्या (मल्लिनाथः) अन्तक इति ॥ किं च । संतता अनवच्छिन्ना आपदः क्लेशा यस्य तस्य जन्मिनःप्राणिनः ।'प्राणीतु चेतनोजन्मी' इत्यमरः । व्रीह्यादित्वादिनिः। अन्तको मृत्युः पर्यवस्थाता प्रतिरोद्धा। प्रथमं तावज्जन्मिनो जन्मदुःखमेव दुस्तरम्, ततो जातस्य जीवनमपि सततं दुःखसंभिन्नतया विषयुक्तान्नप्रायम्, तदपि मृत्युग्रस्तमिति सोऽयम्'काकमांसंशुनोच्छिष्टं [दुर्गन्धं क्रिमिसंकुलम्।म्लेच्छपक्वं सुरासिक्तं] स्वल्पं तदपि दुर्लभम्॥' इति न्यायादिति भावः । इत्युक्तहेतोस्त्याज्ये भवे संसारे । भवतीति भव्यो योग्यो जनः । भवादश इति शेषः। भव्यं सुखे शुभे चापि भेद्यवद्योग्यभाविनोः' इति विश्वः।'भव्यगेय-' इत्यादिना कर्तरि निपातः । मुक्तौ मोक्ष उत्तिष्ठत उद्युक्तो भवति । उदोऽनूर्ध्वकर्मणि (अष्टाध्यायी १.३.२४ ) इत्यात्मनेपदम् ॥ संप्रति प्रशंसापूर्वकं स्वाभिसंधिं दर्शयति
पदच्छेदः AI
अन्तकःअन्तक (१.१) Death
पर्यवस्थातापर्यवस्थातृ (परि+अव√स्था+तृच्, १.१) the one who waits
जन्मिनःजन्मिन् (६.१) of one who is born
संततापदःसन्तत (सम्√तन्+क्त)आपद् (६.१) of one who has constant calamities
इतिइति thus
त्याज्येत्याज्य (√त्यज्+ण्यत्, ७.१) in the (world) which is to be abandoned
भवेभव (७.१) in the worldly existence
भव्यःभव्य (१.१) a wise person
मुक्तौमुक्ति (७.१) for liberation
उत्तिष्ठतेउत्तिष्ठते (उत्√स्था कर्तरि लट् (आत्मने.) प्र.पु. एक.) directs
मनःमनस् (२.१) the mind
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्त कः र्य स्था ता
न्मि नः सं ता दः
ति त्या ज्ये वे व्यो
मु क्ता वु त्ति ष्ठ ते नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.