Loading data... On slow networks this could take a few minutes.
100%

असकलनयनेक्षितानि लज्जा
गतमलसं परिपाण्डुता विषादः ।
इति विविधमियाय तासु भूषां
प्रभवति मण्डयितुं वधूरनङ्गः ॥

अन्वयः AI लज्जा असकल-नयन-ईक्षितानि, विषादः परिपाण्डुता, अलसं गतम्, इति विविधं तासु भूषाम् इयाय । अनङ्गः वधूः मण्डयितुं प्रभवति ।
English Summary AI Shyness became their sidelong glances, despondency became their paleness, and their gait became languid. Thus, in various ways, these states became ornaments for them. Kamadeva is indeed able to adorn women.
सारांश AI कटाक्ष, लज्जा, पीलापन और विषाद—कामदेव ने इन विविध भावों को ही उन स्त्रियों के सौंदर्य को बढ़ाने वाले अलंकारों के रूप में सजा दिया।
घण्टापथव्याख्या (मल्लिनाथः) असकलेति ॥ असकलनयनेक्षितानि नयनार्धविलोकितानि लज्जालसंगतं मन्दगमनं परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्ग इत्येवंप्रकारं विविधं नानाविचेष्टितम्।नपुंसकमनपुंसक- (अष्टाध्यायी १.२.६९ ) इत्यादिना नपुंसकैकशेषत्वम्। तासु भूषामियायेति भावप्राधान्येन योज्यम् । तथा हि । अनङ्गो मदनो वधूर्मण्डयितुं प्रभवति। सर्वावस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥ इदानीमेतासां त्रिभिर्मुनिविलोभने प्रयासवैफल्यमाह
पदच्छेदः AI
असकलनयनेक्षितानिअसकलनयनईक्षित (१.१) glances with partial eyes
लज्जालज्जा (१.१) shyness
गतम्गत (१.१) gait
अलसम्अलस (१.१) languid
परिपाण्डुतापरिपाण्डुता (१.१) paleness
विषादःविषाद (१.१) despondency
इतिइति thus
विविधम्विविधम् in various ways
इयायइयाय (√इ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) became
तासुतद् (७.३) in them
भूषाम्भूषा (२.१) an ornament
प्रभवतिप्रभवति (प्र√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is able
मण्डयितुम्मण्डयितुम् (√मण्ड्+णिच्+तुमुन्) to adorn
वधूःवधू (२.३) women
अनङ्गःअनङ्ग (१.१) Kamadeva
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
ने क्षि ता नि ज्जा
सं रि पा ण्डु ता वि षा दः
ति वि वि मि या ता सु भू षां
प्र ति ण्ड यि तुं धू ङ्गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.