तदनघ तनुरस्तु सा सकामा
व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी
युवतिजनः खलु नाप्यतेऽनुरूपः ॥

अन्वयः AI अनघ, तत् सा तनुः सकामा अस्तु । हि (सा) त्वदर्थे पुरा परासुतां व्रजति । तपः पुनः अपि सुलभम्, (किन्तु) अनुरूपः अनुरागी युवतिजनः खलु न आप्यते ।
English Summary AI O sinless one, therefore let that body of hers have its desire fulfilled, for she is about to die for your sake. Penance can be easily undertaken again, but a suitable, affectionate young woman is indeed not to be found.
सारांश AI हे निष्पाप! उस सुन्दरी की इच्छा पूर्ण करें क्योंकि वह आपके लिए प्राण त्याग रही है। तपस्या पुनः मिल सकती है, पर योग्य प्रेमी सुलभ नहीं होता।
घण्टापथव्याख्या (मल्लिनाथः) तदिति ॥ तत्तस्मात्कारणात्तस्या दुःखस्थत्वाद्धेतोः। हे अनघ निष्पाप! तनुः कृशेति कार्श्यावस्थाकथनम् । सा नायिका सकामा सफलमनोरथास्तु । हि यस्मात्त्वमेवार्थः प्रयोजनं वस्तु वा तस्मिम्स्त्वदर्थे निमित्ते । सतीति शेषः । त्वामुद्दिश्येत्यर्थः । परासुतां निष्प्राणत्वं पुरा व्रजति व्रजिष्यति । मरिष्यतीत्यर्थः। तथा च तेऽनिमित्तहत्ययानघत्वव्याघातः स्यादिति भावः ।यावत्पुरानिपातयोर्लट् (अष्टाध्यायी ३.३.४ ) इति भविष्यदर्थे लट् । इदं च दशमावस्थाप्रदर्शनम् । न च तपोनिष्ठत्वाद्भेतव्यमित्याह-पुनरिति । पुनरपि पश्चादपि। पुनरप्रथमे भेदे इति विश्वः । तपः सुलभम् । अनुराग्यनुरूपो योग्यश्च युवतिजनस्तु नाप्यते न लभ्यते खलु ॥ एवं प्रलोभितस्यापि मुनेर्मौनं न भग्नमित्याह
पदच्छेदः AI
तत्तत् therefore
अनघअनघ (८.१) O sinless one
तनुःतनु (१.१) body
अस्तुअस्तु (√अस् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let be
सातद् (१.१) that
सकामाकाम (१.१) with her desire fulfilled
व्रजतिव्रजति (√व्रज् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is going
पुरापुरा soon
हिहि for
परासुताम्परासुता (२.१) to lifelessness
त्वदर्थेतवअर्थ (७.१) for your sake
पुनःपुनर् again
अपिअपि even
सुलभम्सुलभ (१.१) easy to obtain
तपःतपस् (१.१) penance
अनुरागीअनुरागिन् (१.१) affectionate
युवतिजनःयुवतिजन (१.१) a young woman
खलुखलु indeed
not
आप्यतेआप्यते (√आप् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is obtained
अनुरूपःअनुरूप (१.१) suitable
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
नु स्तु सा का मा
व्र ति पु रा हि रा सु तां त्व र्थे
पु पि सु भं पो ऽनु रा गी
यु ति नः लु ना प्य ते ऽनु रू पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.