Loading data... On slow networks this could take a few minutes.
100%

अचकमत सपल्लवां धरित्रीं
मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्या-
स्तव सुखशीतमुपैतुमङ्कमिच्छा ॥

अन्वयः AI अस्याः इच्छा सपल्लवां धरित्रीम् अचकमत, मृदुसुरभिं पुष्पशय्यां विरहय्य, तत्र भृशम् अरतिम् अवाप्य च, तव सुखशीतम् अङ्कम् उपैतुम् (अस्ति) ।
English Summary AI Her desire made her prefer the earth with its fresh sprouts, having abandoned the soft, fragrant flower-bed. And having become extremely restless there, she wishes to attain your pleasantly cool lap.
सारांश AI वह पुष्प-शय्या छोड़कर भूमि पर लोट रही है और अत्यधिक व्याकुलता के कारण अब आपकी शीतल गोद में स्थान पाने की अभिलाषा करती है।
घण्टापथव्याख्या (मल्लिनाथः) अचकमतेति ॥ किं वाच्यं चेत्याह-सा स्त्री मृद्धी सुरभिश्च या तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीमचकमतैच्छत् । तस्यास्ततोऽपि शीतलत्वादिति भावः । कमेर्णिङन्ताल्लङ् । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (अष्टाध्यायी ३.१.४८ ) इति द्विर्भाव इति केचित् । तन्न । अचीकमतेति प्रसङ्गात् । अतो णिङभावपक्षे 'कमेश्चलेश्चङ् वक्तव्यः' इति वक्तव्याच्चङि रूपमेतत् । अस्या नायिकायास्तत्र धरित्र्यामपि भृशमरतिं दुःख भवाप्य । सुखयतीति सुखः शीतः शीतलश्च तं सुखशीतं तवाङ्कमुत्सङ्गमुपैतुमिच्छा । वर्तत इति शेषः । अस्याश्चौत्सुक्यं कथितम् । अत्रारतिजागरौ सुव्यक्तावित्यस्या नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसंबन्धकथनात्प्रथमः पर्यायालंकारः । तदुक्तम्'क्रमेणैकमनेकसिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेकं पर्यायालंकृतिर्द्विधाः ॥ इति लक्षणात् ॥
पदच्छेदः AI
अचकमतअचकमत (आ√कम् +णिच् कर्तरि लुङ् (आत्मने.) प्र.पु. एक.) desired
सपल्लवाम्पल्लव (२.१) with fresh sprouts
धरित्रीम्धरित्री (२.१) the earth
मृदुसुरभिम्मृदुसुरभि (२.१) soft and fragrant
विरहय्यविरहय्य (वि√रह्+णिच्+ल्यप्) having abandoned
पुष्पशय्याम्पुष्पशय्या (२.१) the bed of flowers
भृशम्भृशम् greatly
अरतिम्अरति (२.१) restlessness
अवाप्यअवाप्य (अव√आप्+ल्यप्) having attained
तत्रतत्र there
and
अस्याःइदम् (६.१) her
तवयुष्मद् (६.१) your
सुखशीतम्सुखशीत (२.१) pleasantly cool
उपैतुम्उपैतुम् (उप√इ+तुमुन्) to attain
अङ्कम्अङ्क (२.१) lap
इच्छाइच्छा (१.१) the desire
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
ल्ल वां रि त्रीं
मृ दु सु भिं वि य्य पु ष्प य्याम्
भृ ति वा प्य त्र चा स्या
स्त सु शी मु पै तु ङ्क मि च्छा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.