Loading data... On slow networks this could take a few minutes.
100%

अवचयपरिभोगवन्ति हिंस्रैः
सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः
समुदितसाध्वसविक्लवं च चेतः ॥

अन्वयः AI अभितः हिंस्रैः सह चरितानि, अमृगाणि, अवचय-परिभोगवन्ति काननानि, च समुदित-साध्वस-विक्लवं चेतः, वधूभ्यः मुनिम् अभिदधुः।
English Summary AI The surrounding forests, though frequented by beasts of prey and devoid of gentle deer, were suitable for enjoyment and gathering flowers. This sight, along with their own minds agitated by rising fear, indicated the presence of the sage (Arjuna) to the celestial women.
सारांश AI हिंसक पशुओं से भरे किंतु मृगहीन वन को देखकर अप्सराओं का मन मुनि अर्जुन की उपस्थिति के कारण भय और विस्मय से भर गया।
घण्टापथव्याख्या (मल्लिनाथः) अवचयेति ॥ अवचयः पुष्पफलादिच्छेदनम् । परिभोग उपभोगः । तद्वन्ति हिंस्त्रा घातुका व्याघ्रादयः। शरारुर्धातुको हिम्स्र: इत्यमरः। तैः सहचरिताः सहचरन्तः । कर्तरि क्तः। मतिबुद्धि— (अष्टाध्यायी ३.२.१८८ ) इत्यादिसूत्रेण चकारात्सुप्तशयितादिवद्वर्तमानार्थता । अन्ये हिंस्त्रेतरे मृगा हरिणादयो येषु तानि सहचरितान्यमृगाणि काननानि ।तथा समुदितेन साध्वसेन विक्लवं विवशं चेतश्च वधूभ्यः । क्रियाग्रहणमपि कर्तव्यम् इति संप्रदानत्वाच्चतुर्थी । अभितो मुनिमभिदधुः । आसन्नं सूचयामासुरित्यर्थः । अवचयादिलिङ्गचतुष्टयेनासन्नो मुनिरित्यन्वमीयतेत्यर्थः ॥
पदच्छेदः AI
अवचयपरिभोगवन्तिअवचय–परिभोगवत् (१.३) fit for gathering and enjoyment
हिंस्रैःहिंस्र (३.३) by beasts of prey
सहचरितानिसहचरित (√चर्+क्त, १.३) frequented together with
अमृगाणिअमृग (१.३) devoid of deer
काननानिकानन (१.३) the forests
अभिदधुःअभिदधुः (अभि√धा कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) indicated
अभितःअभितः all around
मुनिम्मुनि (२.१) the sage
वधूभ्यःवधू (४.३) to the women
समुदितसाध्वसविक्लवम्समुदित (सम्+उद्√इ+क्त)साध्वसविक्लव (१.१) agitated with rising fear
and
चेतःचेतस् (१.१) the mind
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
रि भो न्ति हिं स्रैः
रि ता न्य मृ गा णि का ना नि
भि धु भि तो मु निं धू भ्यः
मु दि सा ध्व वि क्ल वं चे तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.