श्रुतिसुखमुपवीणितं सहायै-
रविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि
त्रिदशवधूषु मनोभवं वितेनुः ॥

अन्वयः AI सहायैः श्रुतिसुखम् उपवीणितं, अविरललाञ्छनहारिणः कालाः च, अविहितहरिसूनुविक्रियाणि सन्ति, त्रिदशवधूषु मनोभवं वितेनुः।
English Summary AI The music, played pleasingly on the Vina by the Gandharvas, and the seasons, charming with their distinct features, failed to cause any emotional change in Arjuna. However, they did produce feelings of love in the celestial women who were watching.
सारांश AI मधुर संगीत और रमणीय ऋतुओं ने अर्जुन के मन में कोई विकार उत्पन्न नहीं किया, बल्कि वे अप्सराओं के मन में ही काम-भाव जगाने लगे।
घण्टापथव्याख्या (मल्लिनाथः) श्रुतीति ॥ सहायैस्तासां सहचरैर्गन्धर्वैः । कृतमिति शेषः ।न लोक- (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । कर्तरि तृतीया । श्रुतिसुखं श्रोत्रमधुरमुपवीणितं वीणयोपगानम् । सत्यापपाश- (अष्टाध्यायी ३.१.२५ ) इत्यादिना वीणाशब्दाण्णिजन्ताभावे क्तः । अविरलैर्भूयोऽभिलाञ्छनैः पूर्वोक्तैः फलकुसुमादिभिश्चिह्नैर्हारिणो मनोहराः काला वसन्तादिऋतवोऽविहिताकृता हरिसूनोरर्जुनस्य विक्रिया मनोविकृतिर्यैस्तानि तथाभूतानि सन्ति ।नपुंसकमनपुंसक- (अष्टाध्यायी १.२.६९ ) इत्यादिना नपुंसकैकशेषः । त्रिदशवधूषु मनोभवं वितेनुर्विस्तारयामासुः । सोऽयं परप्रहारार्थमुद्यतमायुधं स्वात्मानमेव प्रहरतीति न्यायवज्जात इति भावः । अत्र मुनिविक्रियार्थं स्त्रीणां विक्रियारूपानर्थोत्पत्तिकथनाद्वितीयो विषमालंकारः। तथा च सूत्रम्-विरूपकार्यानर्थयोरुत्पत्तिरूपसंघटनाद्विषमालंकारः इति ॥ तटस्थवदालम्बनगणोऽपि विपरीतोऽभूदिति श्लोकद्वयेनाह
पदच्छेदः AI
श्रुतिसुखम्श्रुतिसुख (२.१) pleasing to the ear
उपवीणितम्उपवीणित (१.१) Music accompanied by the Vina
सहायैःसहाय (३.३) by the companions
अविरललाञ्छनहारिणःअविरललाञ्छनहारिन् (१.३) charming with their distinct marks
and
कालाःकाल (१.३) the seasons
अविहितहरिसूनुविक्रियाणिअविहितहरिसूनुविक्रिया (१.१) which did not cause any change in Arjuna
त्रिदशवधूषुत्रिदशवधू (७.३) in the celestial women
मनोभवम्मनोभव (२.१) love
वितेनुःवितेनुः (वि√तन् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) produced
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
श्रु ति सु मु वी णि तं हा यै
वि ला ञ्छ हा रि श्च का लाः
वि हि रि सू नु वि क्रि या णि
त्रि धू षु नो वं वि ते नुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.