बलवदपि बलं मिथोविरोधि
प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं
तम् ऋतुगणः क्षणमुन्मनीचकार ॥

अन्वयः AI मिथः विरोधि बलवत् अपि बलं विपक्षनिर्जयाय न एव प्रभवति। यत् तदानीं भुवनपरिभवी ऋतुगणः तं क्षणं न उन्मनीचकार।
English Summary AI A force, even if strong, is not capable of conquering an enemy if its parts are mutually hostile. It is for this reason that the group of seasons, though conquerors of the world, could not for a moment agitate him (Arjuna).
सारांश AI परस्पर विरोधी शक्तियाँ मिलकर भी शत्रु पर विजय नहीं पा सकतीं; इसीलिए ऋतुओं का समूह भी अर्जुन के मन को क्षण भर के लिए विचलित न कर सका।
घण्टापथव्याख्या (मल्लिनाथः) बलवदिति ॥ बलवत्प्रबलमपि । प्रकृष्टगामीति यावत् । मिथोविरोधि परस्परस्पर्धिबलं सैन्यम् । वरूथिनी बलं सैन्यम् इत्यमरः (अमरकोशः २.८.७८ ) । विपक्षनिर्जयाय शत्रुविजयाय । तुमर्थाच्च- (अष्टाध्यायी २.३.१५ ) इत्यादिना चतुर्थी । शत्रूञ्जेतुमित्यर्थः । न प्रभवति न शक्नोत्येव । कुतः। यद्यस्मात्कारणाद्भुवनानां परिभवी जेतापि । जिदृक्षि- (अष्टाध्यायी ३.२.१५७ ) इत्यादिनेनिप्रत्ययः। ऋतुगणस्तदानीं तमर्जुनं क्षणमपि नोन्मनीचकारानुन्मनसमुन्मनसं न चकार । अरुर्मनश्चक्षुः— इत्यादिनाभूततद्भावे च्चिप्रत्ययः । सलोपश्च । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ एवं तटस्थस्योद्दीपनसामग्री विफलेत्युक्तम् । संप्रति विपरीता जातेत्याह
पदच्छेदः AI
बलवत्बलवत् (१.१) strong
अपिअपि Even
बलम्बल (१.१) a force
मिथःमिथस् mutually
विरोधिविरोधिन् (१.१) hostile
प्रभवतिप्रभवति (प्र√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is able
not
एवएव indeed
विपक्षनिर्जयायविपक्षनिर्जय (४.१) for the conquest of the enemy
भुवनपरिभवीभुवनपरिभविन् (१.१) conqueror of the world
not
यत्यत् Because
तदानीम्तदानीम् then
तम्तद् (२.१) him (Arjuna)
ऋतुगणःऋतुगण (१.१) the group of seasons
क्षणम्क्षण (२.१) for a moment
उन्मनीचकारउन्मनीचकार (√उन्मनस् +च्वि कर्तरि लिट् (परस्मै.) प्र.पु. एक.) made agitated
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
पि लं मि थो वि रो धि
प्र ति नै वि क्ष नि र्ज या
भु रि वी त्त दा नीं
मृ तु णः क्ष मु न्म नी का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.