सरजसमपहाय केतकीनां
प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली
मलिनयति स्म विनीलबन्धनानि ॥

अन्वयः AI षट्पदाली केतकीनां सरजसम् उपान्तिकनीपरेणुकीर्णं प्रसवम् अपहाय विनीलबन्धनानि प्रियमधुरसनानि मलिनयति स्म।
English Summary AI A swarm of bees, abandoning the pollen-laden blossoms of the Ketaki flowers that were sprinkled with pollen from nearby Kadamba trees, began to soil the Bandhujiva flowers, which had very dark stalks and a juice that was dear and sweet to them.
सारांश AI भौरों के समूह ने केतकी के परागयुक्त पुष्पों को त्यागकर पास के नीले डंठल वाले कदम्ब (नीप) के पुष्पों के मधुर रस का पान किया।
घण्टापथव्याख्या (मल्लिनाथः) सरजसमिति ॥ प्रियमधुरिष्टमकरन्दा । नात्र कप्समासान्तः।पुंलिङ्गोत्तरपदो बहुव्रीहिः इति केचित् । नपुंसकलिङ्गस्यैव मधुशब्दस्योरःप्रभृतीषु पाठात् मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुम्नपुंसकयोर्मधुः॥ इत्यभिधानात् । षट्पदाली षट्पदावलिरुपान्तिके यानि नीपानि कदम्बकुसुमानि तेषां रेणुभिः परागैः कीर्णं व्याप्तम् । किं च स्वतोऽपि सह रजसा सरजसम् । न त्वरजस्कमिति भावः । साकल्येऽव्ययीभावः । अचतुर- (अष्टाध्यायी ५.४.७७ ) इत्यादिना निपातः। केतकीनां प्रसवं पुष्पमपहाय विनीलबन्धनानि नलिनवृन्तान्यसनानि प्रियकपुष्पाणि । मकरन्दभरितानीति भावः । सर्जकासनबन्धूकपुष्पप्रियकजीवकाः इत्यमरः (अमरकोशः २.४.४४ ) । मलिनयति स्म । यथा वृन्तादन्यत्रापि मालिन्यं स्यात्तथा मधुलोभाच्छादयामासेत्यर्थः। नहि मध्वासक्तो मधुलामे विभूतिष्वासज्जतीति भावः ॥
पदच्छेदः AI
सरजसम्सरजस् (२.१) pollen-laden
अपहायअपहाय (अप√हा+ल्यप्) having abandoned
केतकीनाम्केतकी (६.३) of the Ketaki flowers
प्रसवम्प्रसव (२.१) the blossom
उपान्तिकनीपरेणुकीर्णम्उपान्तिकनीपरेणुकीर्ण (√कॄ+क्त, २.१) sprinkled with pollen from nearby Kadamba trees
प्रियमधुरसनानिप्रियमधुरसन (२.३) those with dear and sweet juice
षट्पदालीषट्पदआली (१.१) A swarm of bees
मलिनयतिमलिनयति (√मलिन कर्तरि लट् (परस्मै.) प्र.पु. एक.) soiled
स्मस्म (makes past tense)
विनीलबन्धनानिविनीलबन्धन (२.३) those with very dark stalks
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
हा के की नां
प्र मु पा न्ति नी रे णु की र्णम्
प्रि धु ना नि ट्प दा ली
लि ति स्म वि नी न्ध ना नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.