व्यथितमपि भृशं मनो हरन्ती
परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने
नवनवयोजितकण्ठरागरम्यम् ॥

अन्वयः AI परिणत-जम्बु-फल-उपभोग-हृष्टा परभृत-युवतिः व्यथितं मनः अपि भृशं हरन्ती (सती) नव-नव-योजित-कण्ठ-राग-रम्यं स्वनं वितेने।
English Summary AI A young female cuckoo, delighted by eating ripe Jambu fruits, produced a song that was charming with its ever-new melody. Her song was so captivating that it could greatly enthrall even an afflicted mind.
सारांश AI पके हुए जामुन के फलों का रसास्वादन कर प्रसन्न हुई कोयल ने अपने मधुर स्वर से विचलित मनों को भी आकर्षित करना प्रारम्भ कर दिया।
घण्टापथव्याख्या (मल्लिनाथः) व्यथितमिति ॥ व्यथितं दुःखितमपिमनो भृशं हरन्ती। किमुत सुखितमिति भावः। जम्ब्वा: फलं जम्बु । बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् इत्यमरः (अमरकोशः २.४.१९ ) जम्ब्वा वा (अष्टाध्यायी ४.३.१६५ ) इत्यणाभावपक्षेऽञि फले लुक् (अष्टाध्यायी ४.३.१६३ ) इति लुक् । लुक्तद्धितलुकि इति स्त्रीप्रत्ययनिवृत्तिः । जम्बु च तत्फलं चेति सामान्यविशेषयोः सह निर्देशः। यद्वा जम्ब्वा: फलमिति विग्रहः । इको ह्रस्वोऽङ्यो गालवस्य (अष्टाध्यायी ६.३.६१ ) इति ह्रस्वः । तस्य परिणतस्योपभोगेन हृष्टा । अत एव परभृतयुवतिः कोकिलाङ्गना नवनवं नवप्रकारं यथा तथा योजितेन संपादितेन कण्ठरागेण कण्ठमाधुर्येण रम्यम् । सौम्यमित्यर्थः । स्वनं स्वरं वितेने । वर्षास्वपि मधुराः कोकिलालापा इति प्रसिद्धिः॥
पदच्छेदः AI
व्यथितम्व्यथित (√व्यथ्+क्त, २.१) afflicted
अपिअपि even
भृशम्भृशम् greatly
मनःमनस् (२.१) mind
हरन्तीहरन्ती (√हृ+शतृ, १.१) captivating
परिणतजम्बुफलोपभोगहृष्टापरिणत (परि√नम्+क्त)–जम्बुफलउपभोगहृष्ट (१.१) delighted by consuming ripe Jambu fruits
परभृतयुवतिःपरभृतयुवति (१.१) a young female cuckoo
स्वनम्स्वन (२.१) a song
वितेनेवितेने (वि√तन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) produced
नवनवयोजितकण्ठरागरम्यम्नवनवयोजित (√युज्+णिच्+क्त)–कण्ठरागरम्य (२.१) charming with ever-newly applied melody in its throat
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
व्य थि पि भृ शं नो न्ती
रि म्बु लो भो हृ ष्टा
भृ यु तिः स्व नं वि ते ने
यो जि ण्ठ रा म्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.