चिरनियमकृशोऽपि शैलसारः
शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठ-
न्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥

अन्वयः AI (सः) चिर-नियम-कृशः अपि शैल-सारः, शम-निरतः अपि प्रकृत्या दुरासदः, निर्जने अपि स-सचिवः इव तिष्ठन्, मुनिः अपि त्रिलोक-भर्तुः तुल्य-रुचिः (आसीत्)।
English Summary AI Though emaciated by long vows, he had the strength of a mountain. Though devoted to tranquility, he was by nature difficult to approach. Though in a solitary place, he seemed to be with his ministers. And though a sage, his splendor was equal to that of Indra, the lord of the three worlds.
सारांश AI नियमों से कृश होने पर भी वे पर्वत के समान दृढ़, शांत होकर भी दुर्जेय और अकेले भी इंद्र के समान तेजस्वी थे।
घण्टापथव्याख्या (मल्लिनाथः) चिरनियमेति ॥ पुनश्च । चिरनियमेन दीर्घकालतपसा कृशः क्षीणाङ्गोऽपि शैलसारः। उपमानपूर्वपदो बहुव्रीहिः। शमे निरतोऽपि प्रकृत्या स्वभावेन दुरासदो दुर्धर्षो निर्जने विजने देशे तिष्ठन्नपि ससचिवः सपरिवार इव किं च । मुनिरप्यैश्वर्यरहितो ऽपीत्यर्थः। त्रयाणां लोकानां भर्तुरिन्द्रस्य । तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिनोत्तरपदसमासः। तुल्यरुचिः समानतेजाः । अपिशब्दः सर्वत्र विरोधद्योतनार्थः । स च मुनेरतर्क्यमहिमत्वेन निरस्त इति विरोधालंकार:—विरोधाभासत्वं विरोधः इति सूत्रात् ॥
पदच्छेदः AI
चिरनियमकृशःचिरनियमकृश (१.१) emaciated by long-standing vows
अपिअपि although
शैलसारःशैलसार (१.१) having the strength of a mountain
शमनिरतःशमनिरत (१.१) devoted to tranquility
अपिअपि although
दुरासदःदुरासद (१.१) difficult to approach
प्रकृत्याप्रकृति (३.१) by nature
ससचिवससचिव (१.१) with ministers
इवइव as if
निर्जनेनिर्जन (७.१) in a solitary place
अपिअपि even
तिष्ठन्तिष्ठत् (√स्था+शतृ, १.१) standing
मुनिःमुनि (१.१) a sage
अपिअपि though
तुल्यरुचिःतुल्यरुचि (१.१) having equal splendor
त्रिलोकभर्तुःत्रिलोकभर्तृ (६.१) to the lord of the three worlds
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
चि नि कृ शो ऽपि शै सा रः
नि तो ऽपि दु रा दः प्र कृ त्या
चि नि र्ज ने ऽपि ति ष्ठ
न्मु नि पि तु ल्य रु चि स्त्रि लो र्तुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.