सदृशमतनुमाकृतेः प्रयत्नं
तदनुगुणामपरैः क्रियामलङ्घ्याम् ।
दधदलघु तपः क्रियानुरूपं
विजयवतीं च तपःसमां समृद्धिम् ॥

अन्वयः AI (सः) आकृतेः सदृशम् अतनुं प्रयत्नं, तत्-अनुगुणाम् अपरैः अलङ्घ्यां क्रियां, क्रिया-अनुरूपम् अलघु तपः, च तपः-समां विजयवतीं समृद्धिं दधत् (आसीत्)।
English Summary AI He possessed a great effort befitting his noble form, an unsurpassable action corresponding to that effort, a great austerity in keeping with his actions, and a victorious splendor equal to his austerity.
सारांश AI अपनी आकृति के अनुरूप ही महान प्रयत्न और तपस्या करते हुए अर्जुन विजयदायिनी सिद्धि को प्राप्त कर रहे थे।
घण्टापथव्याख्या (मल्लिनाथः) सदृशमिति ॥ पुनः । आकृतेर्वपुषः। आकृतिः कथिता रूपे सामान्यवपुषोरपि इति विश्वः । सदृशं तुल्यमतनुं महान्तं प्रयत्नमुद्योगं द्धत् । तथा तदनुगुणां प्रयत्नानुकूलामपरैरन्यैरलङ्घ्याम् । कर्तुमशक्यामित्यर्थः । क्रियां व्यापारं दधत् । तथा क्रियानुरूपं क्रियानुगुणमलघु गुरु तपो दधत् । तथा विजयवतीं सर्वोत्कर्षवतीं विजयफलां वा तपःक्रियानुरूपां तपःसमा समृद्धिमैश्वर्य दधत् । अत्र पूर्वं प्रत्युत्तरस्य विशेषणतया स्थापनात्प्रथमैकावल्यलंकार:—यथापूर्वं परस्य विशेषणतया स्थापन एकावली इति सर्वस्वसूत्रात् ॥
पदच्छेदः AI
सदृशम्सदृश (२.१) befitting
अतनुम्अतनु (२.१) great
आकृतेःआकृति (५.१) of his form
प्रयत्नम्प्रयत्न (२.१) effort
तदनुगुणाम्तदनुगुण (२.१) corresponding to that
अपरैःअपर (३.३) by others
क्रियाम्क्रिया (२.१) action
अलङ्घ्याम्अलङ्घ्य (२.१) unsurpassable
दधत्दधत् (√धा+शतृ, १.१) bearing
अलघुअलघु (२.१) great
तपःतपस् (२.१) austerity
क्रियानुरूपम्क्रियाअनुरूप (२.१) corresponding to his actions
विजयवतीम्विजयवत् (२.१) victorious
and
तपःसमाम्तपस्सम (२.१) equal to his austerity
समृद्धिम्समृद्धि (२.१) splendor
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
दृ नु मा कृ तेः प्र त्नं
नु गु णा रैः क्रि या ङ्घ्याम्
घु पः क्रि या नु रू पं
वि तीं पः मां मृ द्धिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.