यमनियमकृशीकृतस्थिराङ्गः
परिददृशे विधृतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीया-
न्कृतपदपङ्क्तिरथर्वणेव वेदः ॥

अन्वयः AI यम-नियम-कृशी-कृत-स्थिर-अङ्गः, विधृत-आयुधः, अनुपम-शम-दीप्तता-गरीयान् सः, अथर्वणा कृत-पद-पङ्क्तिः वेदः इव, ताभिः परिददृशे।
English Summary AI He (Arjuna) was seen by them. His firm body was emaciated by ascetic practices, yet he held his weapons. He was venerable due to the brilliance of his unparalleled tranquility, appearing like the Veda whose text was arranged by the sage Atharvan.
सारांश AI संयम से कृश किंतु शस्त्रधारी अर्जुन उन स्त्रियों को साक्षात् अथर्ववेद के समान तेजस्वी, शांत और महान दिखाई दिए।
घण्टापथव्याख्या (मल्लिनाथः) यमेति ॥ यमो देशकालाद्यनपेक्षया शुद्धिहेतुरहिंसादिः। नियमस्तदपेक्षया शुद्धिहेतुस्तपःस्वाध्यायादिः । ताभ्यां कृशीकृतान्यपि स्थिराणि दृढान्यङ्गानि यस्य सः । विधृतायुधो धृतशस्त्रोऽत एव तपःक्षात्रयुक्तःसोऽर्जुनः शमः शान्तिरभ्युदयकाण्डे दीप्ततोग्रताभिचारकाण्डे ताभ्यामनुपमाभ्यां गरीयानुदग्र: । अथर्वणा वसिष्ठेन कृता रचिता पदानां पङ्क्तिरानुपूर्वी यस्य स वेदः । चतुर्थवेद इत्यर्थः । अथर्वणस्तु मन्त्रोद्धारो वसिष्ठकृत इत्यागमः । स इव ताभिः स्त्रीभिः परिददृशे दृष्टः॥ अथ चतुर्मिस्तमेव विशिनष्टि-शशधरेत्यादिभिः ॥
पदच्छेदः AI
यमनियमकृशीकृतस्थिराङ्गःयमनियमकृशीकृतस्थिरअङ्ग (१.१) he whose firm body was emaciated by restraints and observances
परिददृशेपरिददृशे (परि√दृश् भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was seen all around
विधृतायुधःविधृत (वि√धृ+क्त)आयुध (१.१) holding weapons
सःतद् (१.१) he
ताभिःतद् (३.३) by them
अनुपमशमदीप्ततागरीयान्अनुपमशम–दीप्ततागरीयस् (१.१) greater due to the brilliance of his unparalleled tranquility
कृतपदपङ्क्तिःकृत (√कृ+क्त)पदपङ्क्ति (१.१) whose arrangement of words has been made
अथर्वणेवअथर्वन् (३.१)इव like by Atharvan
वेदःवेद (१.१) the Veda
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
नि कृ शी कृ स्थि रा ङ्गः
रि दृ शे वि धृ ता यु धः ता भिः
नु दी प्त ता री या
न्कृ ङ्क्ति र्व णे वे दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.