अथ परिमलजामवाप्य लक्ष्मी-
मवयवदीपितमण्डनश्रियस्ताः ।
वसतिमभिविहाय रम्यहावाः
सुरपतिसूनुविलोभनाय जग्मुः ॥

अन्वयः AI अथ रम्य-हावाः ताः परिमलजां लक्ष्मीम् अवाप्य, अवयव-दीपित-मण्डन-श्रियः (सत्यः), वसतिम् अभिविहाय सुरपति-सूनु-विलोभनाय जग्मुः।
English Summary AI Then, those celestial nymphs, possessing charming coquettish gestures and a beauty enhanced by their limbs that outshone their ornaments, having acquired a loveliness born of fragrance, left their dwelling and went forth to seduce Arjuna, the son of Indra.
सारांश AI अंग-कांति और सौंदर्य से संपन्न वे अप्सराएँ इंद्रपुत्र अर्जुन को लुभाने के लिए अपने निवास छोड़कर चल पड़ीं।
घण्टापथव्याख्या (मल्लिनाथः) अथागन्तुकसहजशोभासंपन्नतया समग्रसाधनाः स्त्रियो मुनिमनःप्रलोभनार्थं प्रास्थन्नित्याह- अथेति ॥ अथ प्रभाते परिमलजां संभोगसंभूतां लक्ष्मीं शोभामवाप्य । संभोग: स्यात्परिमले' इति वैजयन्ती । संभोगात्स्त्रियः शोभन्त इति भावः । एतेनागन्तुकशोभासंपत्तिरुक्ता । अत एव सुरतादिवर्णनस्य प्रस्तुतोपयोगित्वं चोक्तम् । अथ सहजशोभासंपत्तिमाह-अवयवेति । अवयवैः स्तनादिभिर्दीपिता मण्डिता च मण्डनश्री: प्रसाधनशोभा याभिस्ताः। रम्यहावा मनोहरविलासास्ताः स्त्रियः । 'हावो विलासश्चेष्टायाम्' इति विश्वः। वसतिं शिबिरमभिविहाय सर्वतस्त्यक्त्वा सुरपतिसूनोरर्जुनस्य विलोभनाय जग्मुः। अत्रावयवदीपकतया प्रसिद्धस्य मण्डनस्य तद्दीप्यत्वासंबन्धेऽपि संबन्धाभिधानादवयवसौन्दर्यातिशयद्योतनार्थत्वादतिशयोक्तिरलंकारः । अस्मिन्सर्गे पुष्पिताग्रावृत्तम्-~-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणाद् ॥
पदच्छेदः AI
अथअथ Then
परिमलजाम्परिमलजा (२.१) born of fragrance
अवाप्यअवाप्य (अव√आप्+ल्यप्) having obtained
लक्ष्मीम्लक्ष्मी (२.१) beauty
अवयवदीपितमण्डनश्रियःअवयवदीपित (√दीपि+क्त)मण्डनश्री (१.३) those whose beauty of ornaments was enhanced by their limbs
ताःतद् (१.३) they
वसतिम्वसति (२.१) dwelling
अभिविहायअभिविहाय (अभि+वि√हा+ल्यप्) having left
रम्यहावाःरम्यहाव (१.३) having charming coquettish gestures
सुरपतिसूनुविलोभनायसुरपतिसूनुविलोभन (४.१) for the sake of seducing the son of the lord of gods
जग्मुःजग्मुः (√गम् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) went
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
रि जा वा प्य क्ष्मी
दी पि ण्ड श्रि स्ताः
ति भि वि हा म्य हा वाः
सु ति सू नु वि लो ना ग्मुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.