कृतारिषड्वर्गजयेन मानवी-
मगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तंदिनमस्ततन्द्रिणा
वितन्यते तेन नयेन पौरुषम् ॥

अन्वयः AI कृत-अरिषड्वर्ग-जयेन, अगम्य-रूपां मानवीं पदवीं प्रपित्सुना, अस्त-तन्द्रिणा तेन, नक्तन्दिनं विभज्य, नयेन पौरुषं वितन्यते।
English Summary AI By him (Duryodhana)—who has conquered the six internal enemies, who is tireless, and who desires to attain the path of Manu which is difficult to follow—effort is being expanded through policy, with time judiciously divided between day and night.
सारांश AI 'काम-क्रोध आदि षड्रिपुओं को जीतकर वह मनु के दुर्गम मार्ग का अनुसरण कर रहा है। आलस्य को त्यागकर वह दिन-रात का विभाजन कर नीतिपूर्वक अपने पुरुषार्थ को बढ़ा रहा है।'
घण्टापथव्याख्या (मल्लिनाथः) | कृतेति ॥ षण्णां वर्गः षड्वर्गः । अरीणामन्तःशत्रूणां कामक्रोधादीनां षड्वर्गोऽरिषड्वर्गः । शिवभागवतवत्समासः । तस्य जयः कृतो येन तेन तथोक्तेन । विनीतेनेत्यर्थः । विनीताधिकारं प्रजापालनमिति भावः । अगम्यरूपां पुरुषमात्रदु:प्राप्याम् । मनोरिमां मानवीम् । मनूपदिष्टसदाचारक्षुण्णामित्यर्थः । पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रपत्तुमिच्छुना । प्रपद्यतेः सन्नन्तादुप्रत्ययः । सनि ममा— इत्यादिनेसादेशः । अत्र लोपोऽभ्यासस्य (अष्टाध्यायी ७.४.५८ ) इत्यभ्यासलोपः । अस्ता तन्द्रिरालस्यं यस्य तेनास्ततन्द्रिणा । अनलसेनेत्यर्थः । तदिः सौत्रो धातुः । तस्मात् वङ्क़्यादयश्च इत्यौणादिकः किन्प्रत्ययः । कृदिकारादक्तिनो वा ङीप् वक्तव्यः इति । वन्दीघटीतरीतन्द्रीति ङीपन्तोऽपि इति क्षीरस्वामी । तथा रामायणे प्रयोगः—निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् इति । तेन दुर्योधनेन । पुरुषस्य कर्म पौरुषं पुरुषकारः । उद्योग इति यावत् । युवादित्वादण्प्रत्ययः ।पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसिइति विश्वः । नक्तं च दिवा च नक्तंदिवम् । अहोरात्रयोरित्यर्थः ।अचतुर- (अष्टाध्यायी ५.४.७७ ) इत्यादिनां सप्तम्यर्थवृत्त्योरव्ययोर्द्वन्द्वनिपातेऽच्समासान्तः । विभज्यास्यां वेलायामिदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥ संप्रति भृत्याद्यनुरागमाह
पदच्छेदः AI
कृतारिषड्वर्गजयेनकृत (√कृ+क्त)–अरिषड्वर्गजय–कृतारिषड्वर्गजय (३.१) by him who has conquered the six internal enemies
मानवीम्मानवी (२.१) of Manu
अगम्यरूपांअगम्य (अ√गम्+यत्)रूप–अगम्यरूपा (२.१) which is difficult to attain
पदवीम्पदवी (२.१) the path
प्रपित्सुनाप्रपित्सु (प्र√आप्+सन्+उ, ३.१) by one desirous of attaining
विभज्यविभज्य (वि√भज्+ल्यप्) having divided
नक्तंदिनम्नक्तन्दिनम् day and night
अस्ततन्द्रिणाअस्ततन्त्रि (३.१) by the tireless one
वितन्यतेवितन्यते (वि√तन् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is being expanded
तेनतद् (३.१) by him
नयेननय (३.१) by policy
पौरुषम्पौरुष (१.१) effort
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कृ ता रि ड्व र्ग ये मा वी
म्य रू पां वीं प्र पि त्सु ना
वि ज्य क्तं दि स्त न्द्रि णा
वि न्य ते ते ये पौ रु षम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.