सखीनिव प्रीतियुजोऽनुजीविनः
समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम् ॥
सखीनिव प्रीतियुजोऽनुजीविनः
समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम् ॥
समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम् ॥
अन्वयः
AI
गत-स्मयः सः प्रीति-युजः अनुजीविनः सखीन् इव, सुहृदः च बन्धुभिः समान-मानान् (कृत्वा), सन्ततं कृत-आधिपत्यां बन्धुताम् इव साधु दर्शयते।
English Summary
AI
Devoid of pride, he (Duryodhana) constantly shows his affectionate servants the same respect as friends, and his friends the same honour as relatives. He treats them well, as if his kinship itself has assumed sovereignty.
सारांश
AI
'वह अहंकार रहित होकर सेवकों को मित्रों के समान, मित्रों को परिजनों के समान और परिजनों को स्वयं के समान शासन में आदर प्रदान करता है।'
घण्टापथव्याख्या (मल्लिनाथः)
सखीनिति ॥ गतस्मयो निरहंकारोऽतएव स दुर्योधनः संततमनारतं साधु सम्यक् । अंकपटमित्यर्थः । अनुजौविनो भृत्यान्। प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव। दर्शयते । लौकस्येति शेषः।
हेतुंमति च इति णिच् ।णिचश्च (अष्टाध्यायी १.३.७४ ) इत्यात्मनेपदम् । शोभनं हृदयं येषां तान्सुहृदो मित्राणि च । सुहृद्दुर्हृदौ मित्रामित्रयोः (अष्टाध्यायी ५.४.१५० ) इति निपातः । बन्धुभिर्भ्रात्रादिभिः समानमानांस्तुल्यसत्कारादर्शयते । बन्धूनां समूहो बन्धुता ताम् । ग्रामजनबन्धुसहायेभ्यस्तल्।कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते। बन्धूनधिपतीनिव दर्शयतीत्यर्थः । यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान्संभावयतीत्यर्थः । अनुजीव्यादीनाम् कर्तुरीप्सिततमं कर्म (अष्टाध्यायी १.४.४९ ) इति कर्मत्वम् । पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति —स राजानुजीव्यादीन्सख्यादीनिव दर्शयते । सख्याय इव ते तु तं पश्यन्ति । सख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव च्छन्दानुवर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः । अर्थात्तस्येप्सितकर्मत्वम् । अणि कर्तरनुजीव्यादेः अभिवादिदृशोरात्मनेपदमुपसंख्यानम् इति पाक्षिकं कर्मत्वम्। एवं चात्राण्यन्तकर्मणो राज्ञोऽण्यन्ते कर्तृत्वेऽपि आरोहयते हस्ती स्वयमेव इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नार्यं णेरणादिसुत्रस्य विषय इति मत्वाणिचश्च (अष्टाध्यायी १.३.७४ ) इत्यात्मनेपदं प्रतिपेदिरे । भाष्ये तु णेरणादिसुत्रविषयत्वमप्यस्योक्तम् । यथाह—"पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजा,दर्शयते भृत्यै राजा अत्रात्मनेपदं सिद्धं भवति" इति। अत्राह कैयट:—ननु कर्मान्तरसद्भावादत्रात्मनेपदेनं भाव्यम् । उच्यते—अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय ऊह्यते । अयन्तावस्थायां ये कर्तृकर्मणी तद्वयतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति । यथा—स्थलमारोहयति मनुष्यान् इति । इह त्वण्यन्तावस्थायां कर्तॄणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदमिति ॥ न चायं त्रिवर्गात्प्रमाद्यतीत्याहअसंक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्यत्रिगणः परस्परम्
पदच्छेदः
AI
| सखीन् | सखि (२.३) | friends |
| इव | इव | like |
| प्रीतियुजः | प्रीतियुज् (२.३) | affectionate |
| अनुजीविनः | अनुजीविन् (२.३) | servants |
| समानमानान् | समानमान (२.३) | with equal honor |
| सुहृदः | सुहृद् (२.३) | friends |
| च | च | and |
| बन्धुभिः | बन्धु (३.३) | with relatives |
| सः | तद् (१.१) | he |
| सन्ततम् | सन्ततम् | constantly |
| दर्शयते | दर्शयते (√दृश् +णिच् कर्तरि लट् (आत्मने.) प्र.पु. एक.) | shows |
| गतस्मयः | गतस्मय (१.१) | devoid of pride |
| कृताधिपत्याम् | कृताधिपत्या (२.१) | which has assumed sovereignty |
| इव | इव | as if |
| साधु | साधु | well |
| बन्धुताम् | बन्धुता (२.१) | kinship |
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| स | खी | नि | व | प्री | ति | यु | जो | ऽनु | जी | वि | नः |
| स | मा | न | मा | ना | न्सु | हृ | द | श्च | ब | न्धु | भिः |
| स | स | न्त | तं | द | र्श | य | ते | ग | त | स्म | यः |
| कृ | ता | धि | प | त्या | मि | व | सा | धु | ब | न्धु | ताम् |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.