तथापि जिह्मः स भवज्जिगीषया
तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन्भूतिमनार्यसंगमा-
द्वरं विरोधोऽपि समं महात्मभिः ॥

अन्वयः AI तथापि जिह्मः सः भवत्-जिगीषया गुण-सम्पदा शुभ्रं यशः तनोति। भूतिं समुन्नयन् (नरः), अनार्य-संगमात् महात्मभिः समं विरोधः अपि वरम्।
English Summary AI Nevertheless, that deceitful man (Duryodhana), through his desire to conquer you, is spreading his pure fame by his wealth of virtues. For one seeking prosperity, even enmity with the great is better than association with the wicked.
सारांश AI 'कुटिल स्वभाव का वह दुर्योधन आपसे श्रेष्ठता सिद्ध करने हेतु गुणों द्वारा उज्ज्वल यश का विस्तार कर रहा है। सज्जनों के साथ किया गया विरोध भी दुष्टों की संगति से श्रेष्ठ होता है।'
घण्टापथव्याख्या (मल्लिनाथः) तथापीति । तथापि साशङ्कोऽपि । जिह्मो चक्रः । चञ्चक इति यावत् । स दुर्योधनो भवज्जिगीषया । गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः । हेतौ (अष्टाध्यायी २.३.२३ ) इति तृतीया । गुणसंपदा दानदाक्षिण्यादिगुणगरिम्णा करणेन । शुभ्रं यशस्तनोति । स खलो, गुणलोभनीयां त्वत्संपदमात्मसात्कर्तुं त्वत्तोऽपि गुणवत्तामात्मनः प्रकटयतीत्यर्थः । नन्वेवं गुणिनः सतोऽपि सज्जनविरोधो महानस्त्यस्य दोष इत्याशङ्कय सोऽपि तत्संसर्गालाभे नीच संगमाद्वरमुत्कर्षावहत्वादित्याह-समिति। तथ्याहे । भूतिं समुन्नयन्नुत्कर्षमापादयन् । 'लट: शतृशानचौ-' इत्यादिना शतृप्रत्ययः । पुनर्लङ्घहणसामर्थ्यात्प्रथमासामानाधिकरण्यम्, । महात्मभिः समम् । सहेत्यर्थः । साकं सत्रा समं सह इत्यमरः (अमरकोशः ३.४.४ ) । अनार्यसंगमाहुर्जनसंसर्गात् । पञ्चमी विभक्ते (अष्टाध्यायी २.३.४२ ) इति पञ्चमी । विरोधोऽपि वरं मनाक्प्रियः । देवादृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये इत्यमरः (अमरकोशः ३.३.१८१ ) । अत्र मैत्र्यपेक्षया मनाक्प्रियत्वं विरोधस्य 'भूतिं समुन्नयन्' इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरादानात्समाप्तपुनरात्ताख्यानदोषापत्तिः। तदुक्तं काव्यप्रकाशे—'समाप्तपुनरादांनात्समाप्तपुनरात्तकम्" इति। न च वाक्यान्तरमेतत् । येनोक्तदोषपरिहारः स्यात् । अर्थान्तरन्यासोऽलंकारः। स च भूतिसमुन्नयनस्य पदार्थविशेषणद्वारा विरोधवत्त्वं प्रति हेतुत्वाभिधानरूपकाव्यलिङ्गानुप्राणित इति ॥ ननु 'कातर्यं केवला नीतिः' इत्याशङ्क्य नीतियुक्तं पौरुषमस्येत्याह
पदच्छेदः AI
तथापितथापि nevertheless
जिह्मःजिह्म (१.१) deceitful
सःतद् (१.१) he
भवज्जिगीषयाभवत्जिगीषा–भवज्जिगीषा (३.१) by the desire to conquer you
तनोतितनोति (√तन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) spreads
शुभ्रम्शुभ्र (२.१) white/pure
गुणसम्पदागुणसम्पद्गुणसम्पद् (३.१) by the wealth of virtues
यशःयशस् (२.१) fame
समुन्नयन्समुन्नयत् (सम्+उत्√नी+शतृ, १.१) seeking to elevate
भूतिम्भूति (२.१) prosperity
अनार्यसंगमात्अनार्यसंगम–अनार्यसंगम (५.१) than association with the wicked
वरम्वर (१.१) is better
विरोधःविरोध (१.१) enmity
अपिअपि even
समम्समम् with
महात्मभिःमहात्मन् (३.३) the great-souled
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था पि जि ह्मः ज्जि गी या
नो ति शु भ्रं गु म्प दा शः
मु न्न न्भू ति ना र्य सं मा
द्व रं वि रो धो ऽपि मं हा त्म भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.