Loading data... On slow networks this could take a few minutes.
100%

क्रियासु युक्तैर्नृप चारचक्षुषो
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा
हितं मनोहारि च दुर्लभं वचः ॥

अन्वयः AI नृप! क्रियासु युक्तैः अनुजीविभिः चारचक्षुषः प्रभवः न वञ्चनीयाः। अतः असाधु साधु वा (मम वचनं) क्षन्तुम् अर्हसि। हितं मनोहारि च वचः दुर्लभम्।
English Summary AI "O King, masters who see through spies should not be deceived by their appointed servants. Therefore, please forgive what I say, whether it is pleasant or unpleasant. Speech that is both beneficial and pleasing is rare."
सारांश AI वह बोला, 'हे राजन! गुप्तचरों द्वारा स्वामियों को धोखा नहीं दिया जाना चाहिए। अतः मेरी कड़वी या मीठी बातों को क्षमा करें, क्योंकि हितकारी और मन को प्रिय लगने वाले वचन अत्यंत दुर्लभ हैं।'
घण्टापथव्याख्या (मल्लिनाथः) क्रियास्विति ॥ हे नृप, क्रियासु कृत्यवस्तुषु युक्तैर्नियुक्तैरनुजीविभिर्भृत्यै:। चारादिभिरित्यर्थः । चरन्तीति चराः । पचाद्यच् । तएव चाराः। चरेःपचाद्यजन्तात्प्रज्ञादित्वादण्प्रत्ययः। त एव चक्षुर्येषां ते चारचक्षुषः। स्वपरमण्डले कार्याकार्यावलोकने चाराश्चक्षूंषि क्षितिपतीनाम् इति नीतिवाक्यामृते । प्रभवो निग्रहानुग्रहसमर्थाः स्वामिनो न वञ्चनीया न प्रतारणीयाः । सत्यमेव वक्तव्या इत्यर्थः। चारापचारे चक्षुरपचारवद्राज्ञां पदे पदे निपात इति भावः । अतोऽप्रतार्यत्वाद्धेतोः । असाध्वप्रियं साधु प्रियं वा । मदुक्तमिति शेषः । क्षन्तुं सोढुमर्हसि। कुतः । हितं पश्यं मनोहारि प्रियं च वचो दुर्लभम् । अतो मद्वचोऽपि हितत्वादप्रियमपि क्षन्तव्यमित्यर्थः ॥ तर्हि तूष्णींभाव व वरमित्याशंक्याह—स किंसखा साधु नशास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः। सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसंपदः
पदच्छेदः AI
क्रियासुक्रिया (७.३) in tasks
युक्तैःयुक्त (√युज्+क्त, ३.३) by the appointed
नृपनृप (८.१) O King
चारचक्षुषःचारचक्षुस्चारचक्षुस् (१.३) who see through spies
not
वञ्चनीयाःवञ्चनीय (√वञ्च्+अनीयर्, १.३) to be deceived
प्रभवःप्रभु (१.३) masters
अनुजीविभिःअनुजीविन् (३.३) by servants
अतःअतः therefore
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) you should
क्षन्तुम्क्षन्तुम् (√क्षम्+तुमुन्) to forgive
असाधुअसाधु (२.१) unpleasant
साधुसाधु (२.१) pleasant
वावा or
हितम्हित (१.१) beneficial
मनोहारिमनोहारिन् (१.१) and pleasing
and
दुर्लभम्दुर्लभ (१.१) is rare
वचःवचस् (१.१) speech
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
क्रि या सु यु क्तै र्नृ चा क्षु षो
ञ्च नी याः प्र वो ऽनु जी वि भिः
तो ऽर्ह सि क्ष न्तु सा धु सा धु वा
हि तं नो हा रि दु र्ल भं चः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.