Loading data... On slow networks this could take a few minutes.
100%

न समयपरिरक्षणं क्षमं ते
निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा
विदधति सोपधि संधिदूषणानि ॥

सारांश AI कपटी शत्रुओं के प्रति प्रतिज्ञा का पालन करना आपके जैसे तेजस्वी के लिए उचित नहीं है। विजयी राजा शत्रुओं के विरुद्ध युक्ति से संधि भंग कर देते हैं।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ परेषु शत्रुषु । निकृतिः परं प्रधानं येषु तेषु । तथोक्तेष्वपकारतत्परेषु सत्सु भूरिधाम्नो महौजसः प्रतीकारक्षमस्य ते तव समयस्त्रयोदशसंवत्सरान्वने वत्स्यामीत्येवंरूपा संवित् । समयाः शपथाचारकालसिद्धान्तसम्विदः इत्यमरः (अमरकोशः ३.३.१५७ ) । तस्य परिरक्षणं प्रतीक्षणं न क्षमं न युक्तम् । युक्ते क्षमं शक्ते हिते त्रिषु इत्यमरः (अमरकोशः ३.३.१५१ ) ।हि यस्माद्विजयार्थिनो विजिगीषधः क्षितीशा अरिषु विषये सोपधि सकपटं यथा तथा । कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे इत्यमरः (अमरकोशः १.७.३१ ) । संधिदूषणानि विदधति केनचिद्व्याजेन दोषमाप्राद्य संधिं दूषयन्ति । विघटयन्तीत्यर्थः । शक्तस्य हि विजिगीषोः सर्वथा कार्यसाधनं प्रधानमन्यत्समयरक्षणादिकमशक्तस्येति भावः । अर्थान्तरन्यासोऽलंकारः। पुष्पिताग्रावृत्तम् ॥ उक्तमर्थमाशीर्वादपूर्वकमुपसंहराति
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
रि क्ष णं क्ष मं ते
नि कृ ति रे षु रे षु भू रि धा म्नः
रि षु हि वि या र्थि नः क्षि ती शा
वि ति सो धि सं धि दू णा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.